________________
SAR
मूलदेवस्तदालयम् ॥ ३७ ॥ ततोऽसौ तद्वियोगाग्मितीव्रसन्तापतापिता। कुट्टनीमन्यदोवाच, मूलदेवं प्रवेशय ॥ ३८॥ प्रसपईपकन्दर्पविषवेगविघूर्णितम् । तं विना मां यतो मातः! कोऽन्यः सुखयितुं क्षमः ? ॥ ३९ ॥ तयोदितं । यथा वत्से !, सत्यमेव त्वया कृतम् । यदेतन्नीतिशास्त्रेषु, पण्डितैरनुघुष्यते ॥ ४० ॥ अपात्रे रमते नारी, गिरौ । वर्षति माधवः । नीचमाश्रयते लक्ष्मीः, प्राज्ञः प्रायेण निईनः॥ ४१ ॥ मुक्त्वाऽचलं यतो मूर्खे !, समस्तगुणसा-18| गरम् । निःस्वं द्यूतरतं धूर्त, मूलदेवं त्वमिच्छसि ॥ ४२ ॥ देवदत्तया भणितम्-मातर्न रूपतारुण्यधनाढ्यत्वादिसद्गुणे ।
लुब्धाऽहं किन्तु विज्ञानकौशले तत्तु यादृशम् ॥४३॥ मूलदेवे समस्तीह, तादृशं न सुरेष्वपि । जनन्योक्तं-विज्ञानेनापि IN नो हीनोऽचलोऽयं मूलदेवतः॥४४॥ (युग्मम् )तयोदितं यथा मातमैव वोचोऽसमञ्जसम्।अनयोरन्तरं यस्माद्भानुखद्यो
तयोरिव ॥४५॥ जनन्योक्तं यथा वत्से !, यद्येवं तत्परीक्ष्यताम् । अनयोः को गुणः कस्य ?, तयोक्तं साधु साध्विदम ॥४६॥गच्छ त्वमम्ब ! तत्पार्श्व, महचनात्तं न्यवेदय । यथाऽद्य देवदत्तायाः, इक्षुवाञ्छोदयो हि भोः ! ॥४७॥ ततस्तदन्तिकं गत्वा, तदुक्तं सा न्यवेदयत् ।सोऽपीक्षुसंभृतां गन्त्री, प्रेषयामास तद्गृहम् ॥ ४८ ॥ ततोऽसौ प्राह तां । वत्से !, श्रेष्ठिनः सर्वमद्भुतम् । विभवो दानशक्तिश्च, महत्त्वं प्रियभाषिता ॥ ४९ ॥ मुहूर्त्तमिव मौनेन, सविषादं ।
Jain Education
alltional
For Private Personal Use Only
www.jainelibrary.org