SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter 80 | रोहणाचलकश्यपी ॥ ११ ॥ अपिच - अस्पृश्यतैव यद्देहो, मन्ये धात्रा विनिर्मितः । अन्यथा कथमम्लानि, सौकुमार्य भवेत्तनोः ? ॥ १२ ॥ द्यतकरचक्रवर्ती तत्रैव बभूव मूलदेवाख्यः । निःशेषकलाकुशलो धूर्त्तपतिर्धीमतां धुर्यः ॥ १३ ॥ | तत्र भावानुरक्ता सा, तमेव परिपश्यति । अग्रतः पृष्ठतो द्वारि, मध्ये हट्टे गृहेषु च ॥ १४ ॥ मूलदेवोऽपि तद्रागात्त| द्वियोगे न कुत्रचित् । लेभे रतिं दिवा रात्रावासने शयनेऽपि वा ॥ १५ ॥ ततश्च - जीवलोकं सुखं सारमन्योऽन्यमनु| रक्तयोः । आसेवमानयोर्जातस्तयोः कालः कियानपि ॥ १६ ॥ अन्यदा च समायातः, स वसन्तमहोत्सवः । यत्रोद्यानगताः पौरा, नानाक्रीडाः प्रचक्रिरे ॥१७॥ अचलः सार्थवाहस्तु तदोद्यानमुपागतः । ददर्श देवदत्तां तां, मूलदेवसमन्विताम्॥१८॥ ततोऽसौ चिन्तयामास धन्यः कोऽप्येष सधुवा । योऽनया मृगलक्ष्मेव, पौर्णमास्या विराजते ॥ १५ ॥ अहो सौभाग्य| सम्पत्तिरहो लावण्यमुत्तमम् । अहो यौवन मेतस्या, यूनामुन्मादहेतुकम् ॥२०॥ अहो नव्यो विषग्रन्थिरियं धात्रा विनिर्मिता । यत्संभोगे जनः सौख्यं, संत्यागे दुःखमश्नते ॥२१॥ ततः- तत्संजाताभिलाषेण, चिन्तयित्वैवमादिकम् । समीपे प्रेषितस्त| स्यास्तेन सङ्गमको नरः ॥ २२ ॥ तेनोदिता च सा गन्तुं गृहं तेऽद्य समेष्यति । त्वत्सङ्गमाभिलाषेण, सार्थवाहोऽचलाभिधः ॥ २३ ॥ तयोदितं समायातु, तूर्ण स्वागतभाजनम् । धनदं स्वयमायान्तं गृही को न समीहते ? ॥ २४ ॥ इत्युक्त्वा सा For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy