________________
गा. ४१
नवपदबृह- वचनात् मण्डिकविजयाविव 'चौरौ' तस्करौ 'प्राप्नुवन्ति ' लभन्ते 'दुःखानि ' शूलारोपणोद्वन्धनादीनीति / दोषद्वारे वृत्ती अद
मण्डिकविगाथार्थः ॥ ४० ॥ भावार्थः कथानकगम्यस्तच्चेदम्त्तादानव्रते|
जयकथे | विश्वविश्वम्भराभोगचूडालङ्कारसन्निभा । अवन्तीदेशप्रसरा, श्रीमदुज्जयनी पुरी ॥१॥ यस्यां विपणिवीथीषु, ॥१८॥
वीक्ष्य रत्नादिसन्ततीः । पानीयमात्रसंशेषं, मन्यन्ते सागरं जनाः ॥ २॥ यस्यां च विततोत्तुङ्गरम्यहावलीश्रियः।
स्वर्गिणामपि चेतांसि, हरन्ति विप्रलोकिताः ॥ ३॥ औदार्यदाक्ष्यदाक्षिण्यशौर्यवीर्यादिसद्गुणैः । यन्निवासी जनो • भाति, धर्मकर्मनिषण्णधीः ॥ ४ ॥ तस्यामरातिसामन्तमत्तमातङ्गकेशरी । अनीतिकौमुदीभानुर्जितशत्रुर्महीपतिः ॥५॥ सिक्तोऽप्यरिपुरन्ध्रीणां, सन्ततं नेत्रवारिभिः । प्रतापदहनो यस्य, जाज्वलीति स्म कौतुकम् ॥ ६ ॥ यस्य च-रागः/ सन्नीतिशास्त्रेषु, विचित्तत्वं कुकर्मसु । निःस्पृहत्वं परस्त्रीषु, लाम्पट्यं गुणसद्महे ॥ ७ ॥ तस्य भूमीपतेर्मान्यो बन्धुकैरवचन्द्रमाः । अचलः सार्थवाहोऽभूदुदग्रनवयौवनः ॥ ८ ॥ अपि च-रूपेण पुष्पधन्वानं, धनेन नरवाहनम् ।
IN११८॥ जिगाय यो महासत्त्वः, सत्त्वेन च युधिष्ठिरम् ॥ ९ ॥ इतश्व-निःशेषकलाकुशला निरुपमलावण्यरूपसौभाग्या ।। तस्यामभृन्नगर्या विलासिनी देवदत्ताख्या ॥१०॥ या च-कन्दर्पसर्पदष्टानां संजीवनमहौषधी । सम्भोगसुखरत्नानां,
Jain Education intenarior
For Private & Personel Use Only
www.jainelibrary.org