________________
तिभीतस्य ' दुर्गतित्रस्तस्य अविरतिमूलकर्मबन्धभीरोरितियावत्, व्रतमिह प्रस्तावाददत्तादानविरतिरूपं तस्य ग्रहो-ग्रहणं तत्परिणामः-तदध्यवसायः 'चिय : त्ति पूरणे 'भवति ' जायते 'दृढम् ' अत्यर्थं तीव्रश्रद्धस्य । उत्कटनिजाभिलाषस्य, कोऽर्थः ?--" परिमियमुवसेवंतो अपरिमियमणंतयं परिहरंतो । पावइ परम्मि लोए अपशिमयमणतयं सोक्खं ॥१॥” इत्यभिप्रायवत इति गाथार्थः ॥ ३९ ॥ गतं यथा जायत इति द्वारम्, अधुना । ४ चतुर्थ दोषद्वारमुच्यते
जे पुण करेंति विरई अदिन्नदाणस्स नेह लोहिला ।
ते मंडियविजया इव चोरा पावेंति दुक्खाई ॥ ४१ ॥ ये पुनः, प्राणिन इति शेषः, 'कुर्वन्ति ' विदधति ‘विरतिं ' निवृत्ति 'अदत्तादानस्य' अवितीर्ण ग्रहणस्य चौर्यस्येतियावत् 'ने ति निषेधे 'इह ' मनुष्यलोके 'लोहिल 'त्ति, प्राकृतेऽस्त्यर्थे इल्लं, तथा चोक्तम्आलं इल्लं चास्त्यर्थे । ततो लोभवन्त इत्यर्थः, 'ते मंडियविजया इस चोर 'त्ति 'बहुवयणेण दुवयण मिति ।
Jain Education
a
l
For Private Personal Use Only
www.jainelibrary.org