________________
प्रतीति शेषः, 'भवति । जायते 'अदत्ते' अदत्तादानव्रते ' स्वरूपं ' स्वभावः 'तु' छन्दःपूरणे इति गाथार्थः । N॥ ३७ ॥ कथितं यादृशद्वारमधुना भेदहारमाख्यायते
सच्चित्ताचित्तोभयदुपयचउप्पय तहेव अपयं च ।।
जेण य चोरंकारो विसओऽदत्तमि सो नेओ॥ ३९ ॥ सचित्तं च-सचेतनमचित्तं च-अचेतनमुभयं च-मिश्रं सचित्ताचित्तोभयं, किमेतावद्भेदमित्याह-द्विपदं । चतुष्पदं च द्विपदचतुष्पदं, वस्त्विति शेषः, समाहारत्वादेकवचनमनुस्वारलोपस्तूभयत्रापि प्राकृतत्वात, तत्र सचित्तं । द्विपदं-जीवन्मनुष्यादि अचित्तम्-अर्हत्प्रतिमादि उभयं-हाराद्यलङ्कन्तसीमन्तिन्यादि चतुष्पदं च सचित्तमश्वादि अचित्तमैरावतप्रकृत्यादि उभयं नक्षत्रमालाद्यलन्तगजादि, एतच्च द्विपदादि सचित्तादिरूपं विषयोऽदत्ते ज्ञेय इति । तुर्यपादेन सम्बन्धः, किमेतावानेवादत्तविषयः ?, नेत्याह-अपदं च कथं ?-'तथैव । तेनैव सचित्ताचित्तोभयप्रकारेण, तत्र सचित्तमपदं-सजीवधान्यादि अचित्तं-स्वर्णादि मिश्रं-कम्बलीबद्धमुद्गादि, अनेन च नवभेदमदत्तादानमुतम्, अथवा बहुतरभेदत्वमस्याह-'जेण य चोरंकारो विसओऽदत्तंमि सो नेओ' त्ति येन च चौरङ्कारः
Jain Education inte
For Private & Personal Use Only
N
ainelibrary.org