________________
हेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपतयाऽतिचारः, यदा पुनस्तीबसङ्क्लेशादभ्याख्याति तदा भङ्ग एव, व्रतनिरपेक्षत्वात, आह च-" सहसभक्खाणाई जाणंतो जइ करेज्ज तो भंगो । जइ पुणऽणाभोगाईहिं सो तो होइ अइयारो । ॥१॥" स्वदारमन्त्रभेदः पुनरनुवादरूपत्वेन सत्यत्वाद् यद्यपि नातिचारो घटते तथाऽपि मन्त्रितार्थप्रकाशन जनितलज्जादितः स्वदारादेर्मरणादिसंभवेन परमार्थतस्तस्यासत्यत्वात् कथञ्चिहङ्गरूपत्वादतिचार एव, तथा मूषोपदेशो यद्यपि मृषा न वादयामीत्यत्र न वदामि न वादयामीत्यत्र वा व्रते भङ्ग एव, न बदामीति व्रतान्तरे तु न किञ्चन, तथाऽपि सहसाकारानाभोगाभ्यामतिक्रमव्यतिक्रमातिचारैर्वा मुषावादे परप्रवर्त्तनं व्रतस्यातिचारोऽयं, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयं, व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्त्तनाच्च भन्ना | भग्नरूपत्वाद्रतस्येति, कूटलेखकरणं तु यद्यपि कायेन मुषावादं न करोमीत्यस्य न करोमि न कारयामीत्यस्य वा
व्रतस्य भङ्ग एव, व्रतान्तरे तु न किञ्चन, तथाऽपि सहसाकारादिनाऽतिक्रमादिना वाऽतिवारः, अथवा ' मृषावाद | IN || इति मषाभाषणं मया प्रत्याख्यातं इदं पुनलेखनमिति भावनया मग्धबुद्धेर्बतसव्यपेक्षस्यातिचार इति गाथाऽर्थः | ।।
॥ ३४ ॥ गतमतिचारहारमधुना भङ्गहारं प्रतिपाद्यते--
Jain Education in
For Private
Personal Use Only