SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ नवपद२मृषावादे गा. ३५ इह गृहीतस्थूलमृषावादविरतिः श्रावकः सहसा' अनालोच्य अभ्याख्यानं, असदोषाध्यारोपणं, अतीचारा: यथा चौरस्त्वं पारदारिको वेत्यादि, सहसाऽभ्याख्यानं, तद्वर्जयेदिति तुर्यपादान्तेन संबन्धः, तथा है। ॥ ११४॥ रहसंच' त्ति चशब्देन अभ्याख्यानशब्दस्य सम्बन्धाद्रहोऽभ्याख्यानं च, तत्र रहः-एकान्तस्तत्र तेन वा अभ्याIN ख्यानं रहोऽभ्याख्यानं, एतदुक्तं भवति-रहसि मन्त्रयमाणानभिधत्ते-एते हीदं चेदं च राजविरुद्धादिकं मन्त्रयन्ते, तथा 'स्वदारमन्त्रभेदं च ' स्वकलत्रविश्रब्धभाषितान्यकथनं, दारग्रहणं चेह मित्राद्युपलक्षणार्थ, 'चः । समुच्चये, तथा 'मोसुवएसं ' ति मृषा-अलीकं तद्विषय उपदेशो मृषोपदेशः, त्वमिदमेवं च ब्रूहीत्याद्यसत्याभिधानशिक्षणं, तथा 'कूटलेखानां ' असद्भूतार्थसूचकाक्षरलेखनानां करणं-विधानं कूटलेखकरणं तच्च वर्जयेत् ' परिहरेद्, यत । एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति । नन्वाद्यातिचार एवैक आस्तां द्वितीयाभिधानमनर्थकम् अभ्याख्यानस्यो. भयत्राप्यविशेषात, सत्यं, किन्तु रहोऽभ्याख्यानमेकान्तनिमित्तवितर्कमात्रपूर्वक संभाव्यमानाभ्याख्येयार्थाभिधानम्, इतरत्त्ववितर्कपूर्वमेवेति विशेषः नन्वभ्याख्यानमसहोषाभिधानरूपत्वेन प्रत्याख्यातत्वाह एव, न त्वतिचारः इति । सत्यं, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा सहक्लेशाभावेन व्रतानपेक्षत्वाभावान्न व्रतभङ्गः, परोपघात. ११४॥ Jain Education in For Private & Personel Use Only ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy