________________
| पर्वतकावाकारितवान् , तावपि सपरिवारौ समायातो, उपविष्टौ च दत्तोपवेशनको उचितस्थाने, मिलिताश्च मन्त्रिमहामन्त्रिसामन्तप्रमुखा राजलोकाः, आयाताश्चानेके वेदविचक्षणाः, ततस्तेषु निजनिजस्थानोपविष्टेषु दिक्पालानां | देवतानां चाघोषणां कृत्वा भणितं मध्यस्थपुरुषैर्नृपसम्मुख-देव! नारदपर्वतकाभ्यां व्यवहारे त्वं प्रमाणीकृतस्तदिदानी भवद्भिस्तत्सत्यं वक्तव्यं येन न प्रभवन्ति नदीवेगाः न छलन्ति शाकिनीभूतादयः वशीभवन्ति देवाः न दहति वैश्वानरः, सर्वथा यथा क्षीरकदम्बोपाध्यायेन व्याख्यातं तथा कथयन्तु भवन्तः, वसुराजेन भणितं-नाहमलीके भणामि, यतः/ सत्यवादित्वेनवास्थानावसरमाकाशे करोमि तस्मान्माऽत्र शङ्का कदाचित्कृथाः, यदुत वसुराजोऽसत्यवादीत्यभिधाय अजाः छागा यागविधाने क्षीरकदम्बोपाध्यायेन व्याख्याता इत्येवं मम स्मृतिः, ततोऽत्रान्तरे तस्य कुलदेवता कोपमुपगता सती चिन्तयामास-अहह ! कथमनेन पारेन असत्यसन्धिना व्यलीकप्रतिपादनकलङ्केन कलङ्कितो निर्मलोऽपि निजवंशः, तदर्शयाम्येतस्येदानी पापफलमिति विचिन्त्य तथा हतो यथा सिंहासनान्निपतितमात्र एव निधनमुपगतः, ततो लोकेन वसुराजस्य तथाविधामवस्थामवलोक्य पर्वतकोऽपि धिकारितः, नारदश्च सुरासुरगन्धर्वादिभिः संपूजितो, लोकसकाशात्परां श्लाघां प्राप्त इत्येवमनृतभाषणे दोषः, सत्यप्रतिपादने गुणः, इत्येकेनाप्याख्यानकेन दोष
Jain Education
For Private & Personel Use Only
w
ww.jainelibrary.org