________________
रिवारो गुरुभ्रातृस्नेहेन पर्वतकं द्रष्टुं तत्रैव समायातः, हर्षवशोद्भिन्नबहुलरोमाञ्चश्च प्रविष्टस्तद्गृहं, दृष्टः पर्वतकेन, कृता आसनदानादिका प्रतिपत्तिः, पृष्टा परस्परं सुखदुःखवार्ता, स्थित्वा च कियन्तमपि कालमुक्तं नारदेन-भ्रातः! क्रियतां व्याख्यानं, मा विमुखीक्रियन्तामिमे शिष्याः, न ह्यनध्यायायाहमायातः, ततः पर्वतको यद् वेदेषु यागविधानेऽर्द्धव्याख्यानमुक्तवान् तद्व्याख्यातुमारब्धः, तत्र चेदं सूत्रम'अजैर्यष्टव्यं” अस्य व्याख्या-अजाः-छागास्तेयष्टव्यं-यागः करणीय इति. अत्रान्तरे नारदेन भणितं-मैवं वोचः, यागविधाने हि वर्षत्रयपर्युषिता ब्रीह्यादयो न जायन्ते-न रोहन्तीतिकृत्वाऽजा भण्यन्ते, तैर्यष्टव्यं, न तु छागैः, ततश्च तयोरुत्तरप्रत्युत्तरेण महान् विवादो जातः, तस्मिंश्च सति ताभ्यामुक्तं-यथाऽस्माकं वसुराजस्तृतीयः सहाध्यायी। बभूव सोऽत्राथें प्रमाणं, केवलं यो जेतव्यस्तस्य जिह्वाछेदो विधातव्यः, एवं प्रतिज्ञायां विहितायां नारदः। समुत्थाय स्वच्छात्रपरिवारः स्वावासं गतः, पर्वतकोऽपि स्वकीयश्रोतृन् विसृज्य मातृसमीपं गत्वा नारदवृत्तान्तं निवेदितवान्, ततस्तयाऽवादि-यथा नारदेन व्याख्यातं तथा तब पित्राऽपि, एवं मम स्मृतिः, ततस्तेनोदितं-यद्येवं भवतु मम जिह्वाच्छेदः, तयोक्तं-वत्स ! मोत्सुको भूः, त्वया हि राजा प्रमाणमादृत आस्ते, अतस्तमेवोपसर्पामः, मा कदाचि
N
Jain Education
For Private Personal use only
OTww.jainelibrary.org