SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ नवपद २ मृषावादे ॥ १११ ॥ Jain Education Inte , राज्ञा स्वराज्येऽभिषिक्तः, स्वयं च निष्क्रान्तः । ततो वसुराजा स्तोककालेनैवाप्रतिहतशासनो जातः । इतश्च अन्यदा | मृगयागतेन लुब्धकेन केनचिन्नातिदूरवर्त्तिनं मृगमालोक्य कर्णान्ताकृटकोदण्डेन मुक्तो बाणो यावदसावग्रतः प्रतिस्स्वलितः सम्मुखमेव समायातः, ततस्तेन चिन्तितं - किमेतदिति यावदग्रे गत्वाऽवलोकयति तावदवगतं स्फाटिक शिलेति, ततोऽद्भुतं रत्नमेषा खलु शिला, एतदन्तरितमृगविप्रलब्धबुद्धिना हि मया बाणप्रेरणप्रयासो त्रिहितः, इद्दशरत्नानां च नृपतिरेव योग्य इत्यतो राज्ञो निवेदयामि येन विशिष्टरत्नदर्शनतुष्टो महाप्रसादं विद- | धातीति विचिन्त्याभिज्ञानं स किञ्चिद्विधाय गतो वसुराजसमीपं कथितः शिलावृत्तान्तः, ततोऽसौ तामानाय्य प्रच्छन्नं प्रधानवैज्ञानिकैः सिंहासनं कारयित्वाऽऽस्थानमण्डपे न्यवीविशत्, तांश्च वैज्ञानिकान् सह तेन लुब्धकेन जनप्रसिद्धिपरिहारेच्छया प्रच्छन्नमेव व्यापादितवान्, तस्मिंश्च प्रदेशे न केचन प्रवेशं लभन्ते, ततो राजा सिंहा| सनोपविष्ट आकाशस्थ इव ज्ञायते, ततो राज्यान्तरेष्वप्येवं प्रसिद्धिरभृद्, यथा वसुराज आस्थानमाकाशगतो विदधाति सत्यप्रभावेन, नारदोऽपि तस्य सहाध्यायी स्वगृहं गतोऽनेकेषां छात्राणां व्याख्यानं करोति श्रावकधर्मे चानुपालयति, पर्वतकस्तु तत्रैव स्वशिष्येभ्योऽनेकेभ्यो वेदान् व्याख्यानयति, अन्यदा च नारदः स्वशिष्यप | For Private & Personal Use Only वसुराजकथा ॥ १११ ॥ w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy