________________
गुणकारागतक्रमेण यादृशी स्थापना भवति तादृश्युपदय॑ते, अत्र चागतपदैकीकरणे उक्तसङ्-|| ख्यापतिर्भवति, द्वादशवतभङ्गसङ्ख्या त्वनेनैव क्रमेण स्वयमभ्यूह्येति, एवं तावदावश्यकनियुक्त्यभिप्रायेण भङ्गप्ररूपणा कृता, साम्प्रतं भगवत्यभिप्रायेणोपदयते-" तिन्नि तिया तिन्नि दुया तिन्निक्केका य होति जोएसु । तिदुएक तिदुएकं तिदुएकं चेव करणाई ॥ १॥” अस्य स्थापना ||}}}३३१३३] अत्र चैकहिकत्रिकसंयोगचिन्तनया एकोनपञ्चाशद् भङ्गा भवन्ति, तथा चोक्तम्-" मणवइकाइयजोगे करणे कारावणे अणुमईण । एक्कगद्गतियजोए सत्ता सत्तेव इगुवन्ना ॥ १ ॥” एतेषां चायमभिलापः-न करोमि न कारयामि कुर्वन्तं नानुजानामि मनसा वाचा कायेनेति त्रिविधत्रिविधेनैको भङ्गः १ विविधद्विविधे प्रयो भङ्गाः, ते चैवं-न करोमि न कारयामि कुर्वन्तं नानुजानामि मनसा वाचेत्येकः १ मनसा कायेनेति द्वितीयः २ वाचा कायनेति ततीयः ३ त्रिविधैकविधेऽपि त्रयो, यथा-न करोमि न कारयामि कुर्वन्तं नानुजानामि मनसेत्येकः १ वाचेति | द्वितीयः २. कायेनेति तृतीयः ३, हिविधत्रिविधे च त्रयो, यथा-न करोमिन कारयामि मनसा वाचा कायेनेकः! न करोमि कुर्वन्तं नानुजानामि तैरेव द्वितीयः, न कारयामि कुर्वन्तं नानुजानामि तैरेव तृतीयः ३, द्विविधदिविधे|
Jain Education inte
For Private & Personal Use Only
s
aw.jainelibrary.org