________________
षड्युताश्चोक्तसख्यां पूरयन्ति, यतः-षट् सप्तगुणाः षड्युताश्चाष्टचत्वारिंशद्भवन्ति ४८, इयं च सप्तगुणा षड्युता । त्रीणि शतानि द्विचत्वारिंशदधिकानि ३४२, एतानि च सप्तगुणानि षड्युतानि चतुर्विशतिशतानि २४००, एतान्यपि सप्तगुणानि षडधिकानि षोडश सहस्राण्यष्टौ शतानि षडुत्तराणि १६८०६ । अथवा प्रकारान्तरं कथ्यते. प्राणातिपातादीनां पञ्चानां पदानामेकसंयोगेन पञ्च ५ द्विकसंयोगेन दश १० त्रिकसंयोगेन दश १० चतुष्कसंयोगेन पञ्च ५ पञ्चकयोगेनैकः १, तथा चोक्तम्-"पंचण्हऽणुव्वयाणं एकगदुगतिगचउक्कपणगेहिं । पंच य दस दस पणगेक्कगो य संयोग नायव्वा ॥१॥" संयोगानयनोपायश्चायम्-“ उभयमुहं रासिदुगं हेडिल्लानंतरेण भय पढमं । लडहरासिविहत्ते, तस्सुवार गुणं तु संजोगा ॥१॥" अस्या भावार्थ:-उभयमुखम्-उपर्यधोभावेन राशिद्वयं, द्वितीयपङ्क्तावित्थं स्थापयित्वाऽधस्त्यराशेर- ३३१११ न्त्यानन्तरो योऽङ्को द्विकस्तेनोपरितनराशेरन्तस्य पञ्चकस्य भागे हृते जातं साईद्वयं २॥ लब्धं च पुनरुपरितनाङ्केन चतुष्केन गुणितं जातं दश १०, द्विकसंयोगसङ्खयेयं, एवमन्येऽपि संयोगा आनेतव्याः, नवरमुपरितनराशावागतदशायङ्कस्यैवाधस्त्यराशित्रिकादिना भागहारादि कर्तव्यं, अथवा पश्चानां पदानामेकसंयोगे प्रत्येकं पञ्च ५, द्विकसंयोगे दश, ते चैवं-प्रथमद्वितीयप्रथमतृतीयप्रथमचतुर्थ
Jain Education Inter
For Private Personel Use Only
Marjainelibrary.org