SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern व्याख्यातं भेदद्वारमधुना यथा जायत इत्येतदुच्यते दुगतिग दुग दुग दुग एक्कगेण एगेण होइ तिविहं तु । इग दुग इग एकेणं वयाण एसेव गहणविही ॥ ३१ ॥ भङ्गः अस्या भावार्थः–इह व्रतं प्रतिपित्सुः कोऽपि किञ्चित्प्रतिपद्यते, श्रावकत्रतप्रतिपत्तेर्बहुभङ्गत्वात् तत् त दुल्लेख दर्शनार्थमियं गाथा, तत्र ' दुगतिगति द्विविधत्रिविधेन-करणकारणमनोवाक्कायस्वरूपेणैको सूचितः, श्रावकस्य सर्वत्रानुमतेरप्रतिषेधात्, यश्च भगवत्यां त्रिविधंत्रिविधेनेत्ययमपि भङ्गो भणितः स विषयवि - भागेन कस्यचिच्छावकस्य कस्याञ्चिदवस्थायां क्वचिद्वस्तुनि कस्मिंश्चित्क्षेत्रादौ विज्ञेयो न सर्वत्र, भङ्गाभिलापश्चैवं । न करोमि न कारयामि मनसा वाचा कायेनेति, 'दुगदुग' त्ति द्विविधं द्विविधेन भङ्गत्रयं सूचितं पूर्वोक्तादेव हेतोः, एवमुत्तरत्रापि हेतुर्भाव्यः, उच्चारणं चेत्थं न करोमि न कारयामि मनसा वाचा १ मनसा कायेन २ वाचा कायेन ३ | 'दुगएक्कगेणं ति अनेनापि त्रयो भङ्गाः, तदुक्तिश्चैवं न करोमि न कारयामि मनसा १ वाचा २ कायेन ३। raण होइ तिविहं तीत्यनेन हौ, तौ चेमौ-न करोमि मनोवाक्कायैः १ न कारयामि मनोवाक्कायैः २ । L For Private & Personal Use Only jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy