________________
नवपद२मृषावादे
गा. ३०
.१०५॥
इहालीकशब्दस्य इस्वत्वश्रुतिः प्राकृतशैल्या, तच्च तथा न्यस्यते-निक्षिप्यते रक्षणायान्यपार्श्वे घियत इति || न्यासो-निक्षेपकस्तस्यापहरणमपहारश्च-अपलपनमिति पुनः समाहारद्वन्द्वः, एते चत्वारो भेदाः, 'चः । समुच्चये || भिन्नक्रमः तेन 'कटसाक्ष्यं च व्यंसकसभ्यत्वमिति पञ्चमः अत एवाह-भेदाः, प्रकाराः चः पूरणे : मृषावादस्य 'पञ्चति पञ्चसङ्ख्याः तुशब्दैवकारार्थत्वात्पञ्चैव भवन्ति' स्युः 'एते' कन्यालीकादयः |'जिनोद्दिष्टाः' जिनैः-वीतरागैरुद्दिष्टाः-कथिता इति । तत्र कन्यालीकमभिन्नकन्यां भिन्नकन्या वक्ति विपर्ययं वा, इदं च सर्वकुमारादिद्विपदविषयालीकोपलक्षणं, गवालीकं त्वल्पक्षीरां गां बहुक्षीरां विपर्ययं वा वदति, इदमपि सर्वचतुष्पदविषयालीकोपलक्षणं, भूम्यलीक परसत्कामप्यात्मादिसत्कां भुवं ब्रूते विपर्ययं वा, एतच्च शेषापदद्रव्यविषयालीकोपलक्षणं, यद्येवं द्विपदचतुष्पदापदग्रहणमेव करमान्न कृतम् ?, अत्रोच्यते, कन्यालीकादीनामतिगर्हितत्वेन रूढत्वात् , न्यासापहारस्य च स्तेयस्वरूपस्याप्यपलापरूपतया मृषावादत्वादिहोपादानं पूर्वादिकेभ्यो भेदश्च, कूटसाक्ष्यं तत् क्रोधमत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति-यथाऽस्याहमत्र साक्षी, अस्य चान्यपाप-17 समर्थकत्वलक्षणं विशेषमाश्रित्य पूर्वेभ्यो भेद इति गाथार्थः ॥ ३० ॥
१०५.
For Private Personel Use Only
wwww.jainelibrary.org