SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ नवपद२मृषावादे गा. ३० .१०५॥ इहालीकशब्दस्य इस्वत्वश्रुतिः प्राकृतशैल्या, तच्च तथा न्यस्यते-निक्षिप्यते रक्षणायान्यपार्श्वे घियत इति || न्यासो-निक्षेपकस्तस्यापहरणमपहारश्च-अपलपनमिति पुनः समाहारद्वन्द्वः, एते चत्वारो भेदाः, 'चः । समुच्चये || भिन्नक्रमः तेन 'कटसाक्ष्यं च व्यंसकसभ्यत्वमिति पञ्चमः अत एवाह-भेदाः, प्रकाराः चः पूरणे : मृषावादस्य 'पञ्चति पञ्चसङ्ख्याः तुशब्दैवकारार्थत्वात्पञ्चैव भवन्ति' स्युः 'एते' कन्यालीकादयः |'जिनोद्दिष्टाः' जिनैः-वीतरागैरुद्दिष्टाः-कथिता इति । तत्र कन्यालीकमभिन्नकन्यां भिन्नकन्या वक्ति विपर्ययं वा, इदं च सर्वकुमारादिद्विपदविषयालीकोपलक्षणं, गवालीकं त्वल्पक्षीरां गां बहुक्षीरां विपर्ययं वा वदति, इदमपि सर्वचतुष्पदविषयालीकोपलक्षणं, भूम्यलीक परसत्कामप्यात्मादिसत्कां भुवं ब्रूते विपर्ययं वा, एतच्च शेषापदद्रव्यविषयालीकोपलक्षणं, यद्येवं द्विपदचतुष्पदापदग्रहणमेव करमान्न कृतम् ?, अत्रोच्यते, कन्यालीकादीनामतिगर्हितत्वेन रूढत्वात् , न्यासापहारस्य च स्तेयस्वरूपस्याप्यपलापरूपतया मृषावादत्वादिहोपादानं पूर्वादिकेभ्यो भेदश्च, कूटसाक्ष्यं तत् क्रोधमत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति-यथाऽस्याहमत्र साक्षी, अस्य चान्यपाप-17 समर्थकत्वलक्षणं विशेषमाश्रित्य पूर्वेभ्यो भेद इति गाथार्थः ॥ ३० ॥ १०५. For Private Personel Use Only wwww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy