________________
उक्तं भङ्गद्वारमधुना भावनाद्वारं निगद्यते
पणमामि अहं निचं आरंभविवाजिआण विमलाणं ।
सबजगजीवरक्खणसमुज्जयाणं मुणिगणाणं ॥ २८॥ इह प्रतिपन्नप्रथमाणवतेन श्रावकेण त्रिकालमप्येवं चिन्तनीयं यथा 'प्रणमामि, प्रणिपतामि नमस्करोमीतियावत् अहमित्यात्मनिर्देशे 'नित्यं' सदा ' मुनिगणेभ्यः , साधुवृन्देभ्य इत्युत्तरेण सम्बन्धः, षष्ठयाश्चतुर्थ्यर्थत्वाद् , यदुक्तं- छद्री विभत्तएँ भन्नइ चउत्थी , सा च प्रणमामीति क्रियायोगे,
यथा-"तस्मै तत्त्वविदां वराय जगतः शास्त्रे प्रणम्ये" ति, कीदृशेभ्यः? इत्याह-आरम्भविवर्जितेभ्यः, प्राकृतदत्वात् क्तान्तस्य परनिपातः, विवर्जितः-त्यक्त आरम्भः-पृथिव्याद्युपमदों यैस्ते तथा तेभ्यः, अत एव विगतो
मलो-भावतः क्रोधादिरूपो येभ्यस्ते विमलास्तेभ्यः, विवर्जितारम्भत्वस्यैव विशेषणद्वारेण हेतुमाह-'जगति लोके 'जीवाः' सूक्ष्मबादरादिभेदभिन्ना एकेन्द्रियादिपञ्चेन्द्रियान्ताश्चतुर्दश, यदुक्तम्-" एगिदिय सुहुमियरा सन्नियर पणिदिया य सबितिचऊ। पज्जत्तापज्जत्ता भेएणं चोदसग्गामा ॥१७॥" जगज्जीवाः सर्वे च ।
Jain Education Interational
For Private Personal Use Only
www.jainelibrary.org