________________
भंगागा.२७
॥ १०३॥
नव.बृह. चोक्तम्- कम्मं कसं भवो वा कसमाओ सिं जओ कसाया ते ।" तेषामुदये-विपाके ' तीव्राणां' उत्कटानां प्राणातिपाते प्राणाति
"भवति ' जायते 'श्राइस्य, श्रावकस्य देशविरतिभाजः, ननु बन्धादीनामप्रत्याख्यातत्वात्कथं तत्करणे भङ्गः ?, अथ तेऽपि प्रत्याख्यातास्तर्हि सूत्रोक्तवतद्वादशसङ्ख्याविरोधः, एतेषामपि पृथक् प्रत्याख्यातत्वेन । भिन्नवतरूपतापत्तेः, सत्यं, प्राणातिपाते प्रत्याख्याते बन्धादयोऽपि प्रत्याख्याताः, तदुपायत्वात्तेषां, न हि कारणनिर्वृत्ति|| मन्तरेण कार्यनिरोधः कर्तुं शक्यः, अत आकुट्टिकया बन्धादिविधानेऽपि भङ्ग इति, यच्चोक्तम् 'अथ तेऽपि प्रत्याख्याता | इत्यादि, तच्चायुक्तमेव, विशुद्धहिंसाविरतिसद्भावे तत्संभवस्यैवाभावात्, यद्येवं कथं प्राक्तनहारेऽमीषामतिचारत्वमुक्तं ?,
सत्यमुक्तं, किन्तु विवक्षया, तथाहि-यदा मारयामीति सङ्कल्पाभावेऽपि कोपादिविवशः परप्राणप्रहाणमवगणयन्| | || बन्धाद्यारभते तदा निष्करुणतया व्रतानपेक्षस्य देशेन विरतिभङ्गो, न सर्वात्मना, तथा प्रवृत्तस्याप्यग्रे प्राणातिपाता
सिद्धेरतो भङ्गाभङ्गरूपविवक्षयाऽतिचारत्वममीषामुक्तं, तदुक्तं-' न मारयामीति कृतव्रतस्य, विनैव मृत्यु क
इहातिचारः? । निगद्यते यः कुपितो वधादीन्, करोत्यसौ स्यान्नियमेऽनपेक्षः ॥ १॥ मृत्योरभावान्नियमोऽस्ति । तस्य, कोपाइयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति॥२॥” इति गाथार्थः॥२७॥
Join Education
For Private Personel Use Only
Www.jainelibrary.org