SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Jain Education In इति, तथा भक्तपाननिरोधोऽप्यर्थानर्थादिभेदो बन्धवद्द्रष्टव्यः, निरपेक्षो निर्दयं भक्तपाननिरोधो न कस्यचिद्विधेयो, मा भूत्तीक्ष्णबुभुक्षितस्य मरणमिति, सापेक्षस्तु रोग चिकित्सार्थं स्याद्, वाचा वा वदेद्-अद्य ते भोजनादि न दास्यामि, शान्ति - निमित्तं चोपवासं कारयेत् किं बहुना ?, यथा स्थूलप्राणातिपातविरमणस्यातिचारो न भवति तथा सर्वत्र यतनया प्रवर्त्तितव्यं, बन्धादीनां चोपलक्षणत्वान्मन्त्रतन्त्र प्रयोगादयोऽन्येऽप्यत्रातिचारा दृश्या इति गाथार्थः ॥ २६ ॥ उक्तमति चारद्वारमधुना भङ्गद्वारमभिधीयते - बंधाईणि (उ) आउट्टियाइणा जइ करेज तो भंगो । बीयकसायाद तिवाणं होइ सङ्घस्स ॥ २७ ॥ बन्ध आदिषां वधादीनां तानि तुः अवधारणे भिन्नक्रमश्च आकुट्टिका उपेत्य करणमादिशब्दान्निरपेक्षस्य दर्पादिग्रहस्तेन विरत्यनपेक्षप्रवृत्तिभावेनेतियावत् यदि ' कुर्यात् विदध्यात् तदा ' भङ्ग एव विनाश | एवेति वक्ष्यमाणेन सम्बन्धः, प्राणातिपातविरतेरिति शेषः, द्वितीयाः - सूत्रोक्तक्रमापेक्षया अप्रत्याख्यानावरणास्ते चते कषायाश्च, कष्यते-हिंस्यते येन यस्मिन् वा प्राणी स कषः- कर्म भवो वा तस्यायो - लाभो येभ्यस्ते कषायाः, तथा For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy