________________
गा.२७
नव. बृह.IN येनेत्याह-'क्रोधादिभिः क्रोधः-कोपः स आदियेषां लोभादीनां तैःक्रोधादिभिर्न कुर्यादित्यपवादः,अन्यथा करणेतन 1
|अतिचाराः प्राणातिक
प्रतिषेध इति भावः, अत्र चायमावश्यकचाद्युक्तो विधिः-बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽप्यायानर्थाय । वा, तत्रानर्थाय तावदसावविधेय एव, अर्थाय त्वसौ द्विविधः-सापेक्षोऽनपेक्षश्च, तत्रानपेक्षो नाम यन्निश्चलमतीव बध्यते, सापेक्षस्तु दामग्रन्थिना, यश्च प्रदीपनकादिषु विमोचयितुं छेत्तं वा शक्यते, एवं तावच्चतुष्पदानां बन्धः, द्विपदानां तु दासो वा दासी वा चौरो वा पाठादिप्रमत्तपुत्रादिर्वा यदि बध्यते तदाऽनागाढं बन्धनीयो, रक्षणीयश्च प्रदीपनादितः, तथा ते किल द्विपदचतुष्पदाः श्रावकेण संग्राह्या येऽबद्धा एवासत इति, वधोऽपि तथैव, नवरं । निरपेक्षवधो-निर्दयताडना, सापेक्षः पुनरेवं-प्रथममेव भीतपर्षदा श्रावकेण भवितव्यं, यदि पुनर्न करोति कोऽप्याज्ञां । तदा मर्म मुक्त्वा लतया दवरकेण वा सकृतिर्वा ताडयेदिति,छविछेदोऽप्येवं, नवरं निरपेक्षो हस्तपादकर्णादि यन्निर्दयं । छिनत्ति, सापेक्षः पुनर्यद्गण्डादिकं छिन्द्यादहे।ति, तथाऽतिभारो नारोपयितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन ॥ १० ॥ जीविका सा श्राद्धेन मोक्तव्या, अथान्याऽसौ न स्यात्तदा द्विपदो यं भारं स्वयमुत्क्षिपति उत्तारयति च तं वाह्यते । चतुष्पदस्य तु यथोचितभारात्किञ्चिदूनः क्रियते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यत इति, तथा भक्तपाननिरोधो
Jain Education
a l
For Private & Personel Use Only
lalt www.jainelibrary.org