________________
Jain Education In
| राज्ञोऽशोकवनिकायामनेक पद्मिनीपत्र संछन्ना विचित्रकमलकुवलयकुमुदका रोपशोभिता मकरादिरौद्रजलचरदुरवगाहा वापी समस्ति ततः पद्मान्यानाय्यते, तत्र प्रविष्टश्च मकरग्रहादिभिर्ग्रस्यते इति क्षेमोऽपि तदेवादिष्टः, ततो गतोऽसावनेक कौतुकार्थिजनपरिवृतस्तत्र, पठित्वा पञ्चपरमेष्ठिनमस्कारं भावसारमवदत् | सकलजनप्रत्यक्षं यथा यद्यहं राज्ञो द्रोहकारी घातकान् व्यापारयामास तदा मामेते मकरादयो भक्षयन्तु, नो चेदेवता मे सान्निध्यं विधायैतेभ्यो रक्षतु ततः साकारमनशनं गृहीत्वा प्रविष्टोऽगाधजलमध्यं, | देवतासान्निध्येन च महान्तं मकरमेकमादाय तत्पृष्ठमारूढो बहूनि फलानि गृहीत्वोत्तीर्णः, समर्पितवांश्च राज्ञः, तुष्टेन | चानुतापवता तेन क्षमित आलिङ्गितश्च प्रतिपक्षनिग्रहपुरस्सरं प्रवेशितश्च महाविभृत्या नगरं भणितश्च - कं ते वरं ददामि ?, क्षेमेणापि संवेगाद्यागतमानसेन निवार्यमाणेनापि वृता प्रत्रज्या, देवपूजादिपूर्वकं तथाविधाचार्य समीपे प्रत्रजितश्चेति प्रथमव्रतपालने गुणः ॥ उक्तं गुणद्वारमधुना यतनोच्यते—
पाणावाएँ जयणा दारुयधन्नाइउद्गविसयाओ । सजीवे रक्तो विहिणा गमणाइयं कुज्जा ॥ २६ ॥
For Private & Personal Use Only
www.jainelibrary.org