SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ नव. गृह. १ प्राणाति० ॥ १०० ॥ Jain Education In यदिवसे समाहूय पृष्टो दामन्नकः किमर्थं लक्षत्रयदानं ?, किं परोपार्जितं वित्तं सुदेयं भवतीति हेतोः ?, किं वा || प्रेक्षापूर्व कारितयेति, तेनोक्तं-देव ! विज्ञापयामि, प्रेक्षापूर्व कारितयेति मम मतिः, यतो यथा कथञ्चिदपि निजप्रस्तावा गतां पठता गाथां नटेन स्मृतिपथमानीतो मे स्वयमनुभूतो व्यतिकर इत्यभिधाय सविस्तरं चण्डालघातप्रभृतिवृत्ताअन्तवर्णनं गाथाश्रवणावसानं कृतं नरपतेः पुरतः, ततः सन्मानितो राज्ञा विसर्जितश्च गतः स्वगृहं विशिष्ट भोगभागी संवृत्त इति, एवं च प्राणातिपातविरतानामिह परत्र च दृष्टान्तद्वयानुसारेण गुणगणं परिभाव्य तन्निवृत्तौ भव्यजनैर्यत्न | आस्थेय इति गाथागर्भार्थः ॥ २४ ॥ आदिशब्दोपात्तं तु क्षेमकथानकं कथ्यते— पाटलिपुत्रे नगरे जितशत्रू राजा, तस्य क्षेमो नामामात्यः प्रधानश्रावकः, स च राज्ञोऽतिप्रिय इति | कृत्वाऽन्येषां सामन्तादीनामप्रियः, ते च तस्य विनाशमिच्छन्तोऽन्यदा क्षेमपुरुषान् दानसन्मानादिभिर्वशीकृत्य राज्ञोऽभिमरत्वेन व्यापारितवन्तो, राजपुरुषैश्च प्राप्ता वयं क्षेमामात्यप्रयुक्ता इति ते भणितवन्तः ततः समानायितः क्षेमो राज्ञा, भणितश्च यथा त्वमप्येवमक्षेमंकरः ?, तेनोदितं -देव ! कीटिकाया अप्यहं नाक्षेमावहः, किं पुनर्भवतः ?, तथाऽपि राज्ञा वध्य आज्ञापितो, यश्च तत्रान्योऽपि वध्य आज्ञाप्यते स तस्यैव For Private & Personal Use Only क्षेमकथा 11 200 10 www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy