SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ यनिमित्तो मयैष दामन्नकवधश्चिन्तितः स एव मम पुत्रो विधात्रा प्रतिकुलकारिणा हतः, अहो ! तदेतदाख्यानका जातं-' यञ्चिन्त्यते परस्य तदुपैति स्वस्ये ” त्येवं चिन्ताकुलो झगिति समागतहृदयसंघट्टः पतितो भूमौ, पापकर्मा । खल्वेषोऽपापे पापं चिन्तयतीत्येवं संजातरोषैः परित्यक्तः प्राणैः, सपुत्रः श्रेष्ठी मृतो, न च तदन्वयेऽन्योऽस्तीति श्रुतं । राज्ञा, ततो जामाता दामनक एव भवत्वस्य गृहसारस्य स्वामीति परिभाव्य स्थापितः स एव श्रेष्ठिपदे, गच्छत्सु दिवसेषु कियत्स्वपि स्वभावानुरक्तया पत्न्या कस्मिंश्चिदवसरे कथितो लेखादिव्यतिकरः, ततः शेषं स्वमत्यैव विततिं यथा सर्वमेतन्महधावबद्धबुद्धिना श्रेष्ठिना कृतमिति । अन्यदा तु समुद्रदत्तवणिजा यानि पूर्व पारेसमुद्रं । प्रोषतान्यभूवन् प्रवहणानि तानि तदीयपुण्योदयाकृष्टानि विशिष्टभाण्डपरिपूर्णानि समागतानि व पितः समागत्यैकपुरुषेण, दत्तं पारितोषिकं, चलितस्तद्दर्शननिमित्तं, अईपथे नटप्रेक्षणकमद्राक्षीत, तत्र च प्रस्तावे गीता नवगीतगी|तिका, यथा-" अणुपुंखमावहतावि अणत्था तस्स बहुगुणा हुंति । सुहदुक्खकच्छपुडओ, जस्स कयंतो वहइ पक्खं ॥१॥" तत् श्रुत्वा तेन सुवर्णलक्षण प्रसादं भाणयित्वा भणितो नट:-पुनः पठ, पाठावसाने द्वितीयलक्षं। प्रसादीकृतं. एवं यावत् तृतीयमपि. अत्रान्तरे वणिग्जनासंभाव्यमानमहादानप्रवृत्ति जनपरम्परया विज्ञाय राज्ञा द्विती-| Join Education Intel For Private & Personal Use Only ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy