________________
प्राणाति०
दामनकदृष्टान्त
॥९९॥
नव. बृह. १ पार्श्वे, विधाय महान्तमुपचारं कारितस्तद्वधाभ्युपगमं, समागतो गृहं, अस्तगिरिशिखराभिमुखं प्रस्थिते च चक्रवाकबन्धौ ।
दिनकरे बलिपटलकहस्तः प्रेषितो देवतार्चनव्याजेन नगरदूरवर्त्ति चण्डिकायतनं, गच्छंश्च हट्टपथेन दृष्टः | सागरदत्तेन हट्टव्यवस्थितेन, आभाषितश्च-क्वोच्चलित एकक एव अस्यामवेलायां ?, तेनोक्तं-चण्डिकापूजनार्थं श्वशुरेण प्रहितः, ततः किञ्चित्कोपमादश्योक्तम्-अहो ! शोभना वेला देवतार्चनस्य, अहो तातस्य बुद्धिकौशल. मित्यभिधाय तमेव विपणावुपवेश्य स्वयं गृहीतबलिपटलको यावदेवतार्चनं विधाय गच्छामि तावत्क्षणमात्रमत्रैव । प्रतीक्षणीयमित्यभिधाय जगाम यममुखमिव चण्डिकायतनाभिमुखं, ततस्तत्प्रदेशवर्त्तिना सव्यवधानदेशानुपलक्ष्यमाणेन लक्ष्यवेधिना चण्डालेनाऽऽकर्णाकृष्टधनुषा शरेण विद्धः, आः ! केन पापेनाकारणवैरिणेदमनुष्ठितमिति ब्रुवाणः पतितो भूमौ, मिलितस्तदासन्नवी लोकः, पारम्पर्येण समाकर्णितं समुद्रदत्तवाणिजा तदीयं ।। मरणं, अकरुणहृदयस्तुष्टश्चित्तेन, तथाऽपि लोकापवादभयात् हा ! किमेतज्जातमिति ब्रुवाणो निर्गतो गेहात् गच्छता च दृष्टो हट्टोपविष्टो दामन्नकः, पृष्टश्च-क्वगतः सागरदत्तः ?, कथं च त्वमत्र स्थितः ?, तेनोदितं-मम (स बलात्कारेण गतश्चण्डिकापूजनार्थमहं चात्रैव धृतः, ततस्तद्वचः श्रवणविदारणमाकर्ण्य हा हतो मन्दभाग्यो
९९.
*
Jain Education international
For Private 3 Personal Use Only
www.jainelibrary.org