SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Jain Education दामनकं नवीनानुपहतनिर्मोकधवलदुकूलपरिधानम्, अभ्युत्थितोऽनेनाभिवन्दितश्च पृष्टः श्रेष्ठिना तनूजस्तद्वयतिकरः, कथितस्तेन स लेखादिवृत्तान्तः, ततश्चेतसा सखेदोऽप्यदर्शितमुखविकारः साधु पुत्र ! कृतमिति प्रतिपाद्य चित्रशा|लिकावार्त्तनि पर्यङ्ककदेशे समुपविश्याचिन्तयत् - अहो ! विजयी कर्मव्यवहारः, प्राणिनां यस्मिन्ननुकुलेऽपाया अप्युपाया भवन्ति, विपदोऽपि सम्पदः संपद्यन्ते, तदिदं सत्यमेव संजातं यदुक्तं केनचित् -" अन्यथैव विधीयन्ते, पुरुषेण मनोरथाः । दैवेन प्राप्तिसद्भावात्, कार्याणां गतिरन्यथा ॥ १ ॥ " तदिदानीं नान्यथा मुनिभाषित मिति संभाव्यते, भवतु तथाऽपि प्रारब्धाभिलषितार्थविषये पुरुषेण तदसिद्धावपि न विषादवता भाव्यं प्रत्युत | प्रयत्नः करणीयः, यदुक्तम् - " प्रारभ्यते न खलु विनभयेन नीचैः, प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विनैः । पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ १॥ " इत्यालोच्य समाहूता पत्नी, कथितं तदग्रे - | यथा मया कुलदेवताया उपयाचितमेवं प्रतिपन्नमास्ते, यथा-यो मदीयां दुहितरं परिणेष्यति स एकाकी समागत्य गृहीत | बलिपुष्पपटलकस्त्वां पूजयिष्यति, तदद्यापि कालवेलायां भगवत्याः पूजानिमित्तं जामाता यास्यति, ततो भवत्या | सकलं तद्योग्य बलिपुष्पादिकं प्रगुणीकृत्य धरणीयमित्यभिधाय स्वयं गतः श्रेष्ठी पूर्वपरिचितस्यान्यस्य चण्डालस्य For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy