________________
नव. बृह. १ लिखितम् 'अधौतपादस्यास्य विषं दातव्यामिति,ततोऽसौ तमेवानुकम्पापरेण चेतसा निर्निमेषया दृशा विलोकयितमा- दामनकप्राणातिक
दृष्टान्तः रब्धा, चिन्तितवती च-ननु किमनेन वराकेणातिदारुणं वैरकारणमनुष्ठितं येन तातेन विषं दापितमस्य एवं च तं पुनः पुनर्निवर्णयन्त्या तदीयाङ्गप्रत्यङ्गनिरीक्षणादुपजातगाढानुरागया समादाय नयनकज्जलं नखशुक्त्या विषा दातव्येति विधाय भूयः संवर्तितो लेखस्तथैव गले संबद्धश्च, क्षणमात्रं तत्र च क्रीडित्वा सा गता गहं. सोऽपि क्षगान्तरे प्रतिबुद्धः समुत्थाय ततो गतः सागरदत्तसमीपं समर्पितो लेखः, पितुर्बहुमानेन तेनापि सप्रश्रयमादाय निवेशितः शिरसि, उन्मोच्य वाचितश्च, यावदधौतपादस्य विषा । दातव्येति, विषेति तस्या एव कन्याया नाम, ततोऽसाववधारितलेखाभिप्रायो 'गुर्वादिष्टं न विकल्पये' दिति वच. नार्थमनुस्मरन् गत उपाध्यायपार्श्व, पृष्टो विवाहलग्नशुद्धिं, असावप्यचिरात्परिभाव्य अद्यैवार्द्धरात्रेऽनयोलग्नशुद्धिरन्यदा । तु वर्षद्वयनेत्यवादीत् ततः सागरदत्तोऽचिन्तयत्-इतः प्राप्तवरा विषा इतश्चातिनिकटमेतल्लग्नमन्यच्च दू चितमिदानीम् ?, अथवा यद्भवति तद् भवतु आराध्यते तावल्लम्ममिति विचिन्त्य गतः स्वगहं, प्राप्तेऽर्द्धरात्रे लग्नवेलायां निर्वर्तितो गन्धर्व विवाहः, प्रभाते च समृद्गते मयूखमालिनि समागतः श्रेष्ठी गोकुलतो यावत्पश्यति
रना
तात्कम.
Jain Educat
i onal
For Private & Personel Use Only
www.jainelibrary.org
WAY