________________
प्राणाति०
॥ ९७ ॥
नव. बृह. १ वीक्षितः, ततोऽनुकम्पापरीतचेतसा स्वगृहं नीतः कर्मकरवृत्त्या घृतश्च, अपरेद्युः साधुसङ्घाटकस्तगृहं भिक्षार्थमागतः, तत्रैकेन साधुना द्वितीयस्य कथितं यथाऽयं द्रमकोऽस्य गृहस्य स्वामी भविष्यति, तच्च वचः समुद्रदत्तश्रेष्ठिना कटकान्तरितेनाकर्णितं, चिन्तितं च- कथं मम पुत्रादयो न स्वामिनो भविष्यन्ति ?, अयं | मम गृहस्य नायको भविता ?, तद् यावदद्यापि मुनिवचनं नावितथं संपद्यते तावद्व्यापादयामि केनचिदुपायेनैनमिति विचिन्त्याकारितः पूर्वपरिचितश्चण्डाल एको, दानसन्मानादिनाऽऽगृह्यैवैनमाज्ञापितवांस्तद्वयापादनं प्रति अभ्युपगतमनेन, अन्यदा हट्टमार्गे मायया याचितो द्रम्मानसौ चण्डालः श्रेष्ठिना, तेनोक्तम् - इदानीं मम पार्श्वे न | सन्ति द्रम्माः, यदि कञ्चिन्मदीयस्थानं प्रेषयसि तदा प्रयच्छामि, ततः श्रेष्ठिना दामन्नक एव पार्श्ववतीं प्रहितः, गतस्तेन सहितः, अनेन चान्तावसायिना चण्डालपाटकाद्दूरतरं नीत्वा तत्पुण्यानुभावसंजनितकरुणेन श्रेष्ठ्यादिष्ट| मारणव्यतिकरं बोधयित्वा भणितः - यदि त्वमितो दूरमपत्रामसि तदा भवतोऽङ्गुलीं छित्त्वा श्रेष्ठिनः साभिज्ञानदर्शनार्थं त्वां जीवन्तं मुञ्चामि अन्यथाऽवश्यं मारयामीत्युक्तो भीतभीतोऽसौ जजल्प- मुञ्च मां यदादिशसि तत्करोमि, प्रतिपन्ने गृहीत्वाऽङ्गुलीं मुक्तोऽसौ, गतो मरणभयभीतोऽज्ञातचर्यया तस्यैव श्रेष्ठिनो
Jain Education
For Private & Personal Use Only
दामनकदृष्टान्तः
॥ ९७ ॥
www.jainelibrary.org