SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्राणातिक च कुतोऽपि समागतैश्चौररपहृत्योज्जयनी नीतः, विक्रीतो राजसूपकारपाचे, नीतः स्वशालां, भणितश्च-लावकादी-हिंसाविरनुच्छासय, तेनापि ते मुक्ताः, ततोऽसौ सूपकारेण बहु विरूपं भाणतः पुनर्नैतत्करणीयमित्युक्त्वा धृतश्च, याव. गाव द्वितीयदिने तित्तिरादीन् मारयेत्युक्तो बभाण-नाहं मारयिष्यामि, ततो दुर्वचनैरपि भणितो यावन्नेच्छति मारयितुं । तावकोपावेशविवशेन सूपकारेण ताडितो गाढं, ताड्यमानश्वारटितुमारेभे निकटगवाक्षवर्त्तिना च राज्ञा तमारटन्तमाकर्ण्य पृष्टं-किमेष रारटीति ?. तत एकेन पुरुषेण कथितं-यथाऽसौ सूपकारेण क्रयक्रीतोऽपि तित्तिरादीन् हन्तुमाज्ञापितोऽपि न हन्तुमिच्छति, राज्ञोक्तं-पश्याम्यनमानयत, आनीतश्च राजसमीपं. पतितः पादयोः भणितो राज्ञाकिमिति भो! लावकादीन्न मारयसि ?, तेनोक्तं-देव ! जीववधः प्रत्याख्यातो मया, राज्ञोक्तं-स्वायत्तस्य प्रत्याख्यानं भवति, त्वं तु परायत्तः, तेनोक्तं-किं परः करिष्यति मे ?, ततो राज्ञा तत्साहसपरीक्षार्थमलीकभृकुटिभीषणं । ललाटपट्टमाधायोक्ताः सन्निहितपुरुषाः-अरे रे ! कसाप्रहारैस्ताडयतैनमलीकप्रत्याख्यानावलेपवाहिनं, तथाऽपि नेच्छति, ततो राज्ञाऽऽनायितो दुष्टगजः, तेन भापयितुमारब्धः, ततोऽसौ वक्ति--वरमहमेको मृतो, न पुनरनेके मारिताः, यत एवं श्रूयते-" एकरस कए नियजीवियस्स बहुयाओं जीवकोडीओ । दुक्खे ANI Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy