________________
Jain Education Inte
इतस्ततो नष्टः, स च रौद्रध्यानो मृत्वा नरके दुःखभाजनं संवृत्तः ॥ एवं च यथाऽसौ पतिमारिका द्रमकश्च प्राणातिपातस्यानिवृत्तौ दुःखभाजनतां गतौ इहपरलोकयोः एवमन्येऽपीति ॥ अधुना पञ्चमं गुणद्वारमुच्यतेपुण वहविरइजुया उभओ लोगेऽवि तेसि कल्लाणं । जह सूवगहियदारग दामन्नगमाइयाणं च ॥ २५ ॥
,
यथाशब्द
पुनः प्राणिनो ' वधविरतियुताः प्राणातिपातनिवृत्तिसमन्विताः, उभयोरपि लोकयोस्तेषां कल्याणमिति सम्बन्धः 'लोगेऽवीति अपिशब्दस्य भिन्नक्रमत्वात् प्राकृतत्वेन वचनव्यत्ययाच्च, उपप्रदर्शने, सूव 'त्ति पदावयवेन पदसमुदायापेक्षणात्सूपकारगृहीतदारकस्य, सूत्रत्वाल्लुप्तषष्ठीकं पदं, न केवलमस्य दामन्नकादीनां च मकारोऽलाक्षणिक चकारः समुच्चये, आदिशब्दात्क्षेमादीनां चेति गाथासङ्क्षेपार्थः । | विस्तरार्थस्तु कथानकेभ्योऽवसेयः, तानि चामूनि क्रमेणोच्यन्ते-
4
-
पुरा धान्यपुरग्रामे महासमृद्धिमतो माणिभद्रश्रावकस्य प्रशमादिगुणगणालङ्कृतो निष्कलङ्कसम्यक्त्वो गृहीताव्रतः स्वभ्यस्तसमयो यथार्थाभिधानो धर्मरुचिस्तनयः, असौ कदाचिन्निजवयस्यपरिवृतो ग्रामाद्वहिर्निर्गतः, स
For Private & Personal Use Only
w.jainelibrary.org