SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ नव. वृह.१ प्राणाति द्रमकदृष्टान्त ॥९ ॥ कियताऽपि च कालेन तस्मिन् कणि क्षयोपशमं गते साध्वीः संमुखीदृष्टा चिन्तितमनया-धन्याः खल्वेता विरक्तकामभोगा याः सर्वसावद्यनिवृत्तिं गृहीत्वा प्रकृष्टसन्तोषसुखतृप्तास्तिष्ठन्ति, मया पुनः पापिष्ठया इहपरलोकविरुद्धमीदृशमनुष्ठितं यन्न त्यक्तुं न वा ग्रहीतुं शक्यते, पादयोः पतितुकामायाश्च पिटिका भूमौ निपतितेति ॥ । द्वितीयकथानकम्-राजगहनगरे कश्चिमकः प्रतिवसति स्म, अन्यदा च तत्र कस्मिंश्चिदत्सवे लोको वैभारगिरिवरनितम्बवार्तिनि विविधवनखण्डमण्डिते सर्व कोद्याने क्रीडानिमित्तमुद्यानिकायां निर्गतः, स च द्रमकः प्रहरद्वयप्रमाणे दिवसे भिक्षार्थ नगरमेव प्रविष्टः, उद्यानिकागमनव्यतिकरं लोकस्याजानानः प्रतिगृहं । पर्यटितुमारेभे, न कश्चिद्भिक्षां प्रयच्छति, वक्ति च गृहरक्षपालादिः-यथोद्यानं गतः सर्वोऽपि लोकः खाद्यपेयचूण्यलेह्यादि गृहीत्वा अद्य, ततस्तत्रैव गत्वा याचस्वेत्युक्तो गत उद्यानं यावत्तावत्तत्र सकलोऽपि लोको भुक्त्वा प्रेक्षणकादिव्यग्रस्तिष्ठति स्म, न तस्य कश्चिदुत्तरमपि ददाति, ततोऽसौ बुभुक्षितत्वादतिक्रुद्धः पर्वतस्योत्तुङ्गशृङ्गमारुह्य । लोकस्य हननार्थमेकस्याः शिलाया अधः खनित्वा कोपाद्विस्मृतात्मा तदधःस्थित एव तां पातयितुमारब्धः, तया । च पतन्त्या स एव चूर्णितः, लोकश्च प्रलयकालघटितघटनावनघण्टाघोरघोषानुकारितदीयखटखटारवत्रासिता Tal॥ ९४॥ Jain Education Inter For Private & Personel Use Only jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy