SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ |पलायितोऽसौ. तच्च छात्रेण रात्रिविलसितं सर्व विज्ञाय काकरक्षणवेलायां विजने जाते--दिवा बिभेषि काकेभ्यो, रात्रौ तरसि नर्मदाम् । कुतीर्थानि च जानासि, नेत्रकुञ्चनकानि च ॥१॥ इति पठता ज्ञापितं तस्याः, ततस्तया विज्ञाताऽहमनेनेति विचिन्त्योक्तं--भवादृशविदग्धाप्राप्त्येदमनुष्ठीयते, किं करोमि ? यथा तथा कालयापनां विदधामि, इतः प्रभृति तु त्वमेव मम प्राणनाथ इति गदितः, तेनोदितं-आः ! पापे ! किमुपाध्याय-1 स्यापि न लज्जसे , तया चिन्तितं-अस्यैवं वदतोऽयमाशयः-उपाध्यायः कण्टकप्राय आवयोस्तदेनं व्यापादयेति । स्वमत्या परिभाव्य रात्रौ सुखप्रसुप्तो व्यापादितः क्षुरिकया, बहूनि खण्डानि कृत्वा क्षिप्तो जरत्पिटिकायां, परिस्थापनार्थे । च विभातप्रायायां रजन्यां पिटिकां मस्तके कृत्वा गताऽटव्यां परिस्थापनवेलायां च कुलदेवतया मस्तक एवं स्तम्भिता पिटिका, ततो लज्जावशान्नगरमागन्तुमशक्नुवती कतिचिदिनानि तत्रैव निनाय, अन्यदा तु बाढं गाढबुभुक्षया दोदूयमाना लज्जां विहाय पत्तनं प्रविष्टा, भिक्षार्थ च गृहे २ ददत भिक्षां पतिमरिकाया इति प्रलपन्ती रुदती च पर्यटितुमारब्धा, लज्जादयश्च गुणास्तावदेव प्राणिनां, प्रसर्पन्ति यावद्धभुक्षा पिशाचीव नोच्छलति, तथा चोक्तम्"रूवं सिरि सोहग्गं नाणं माणं परक्कमं सत्तं । लज्जा इंदियविसओ. नवरि य एका छुहा हणइ॥१॥" Jan Education Interi For Private Personel Use Only jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy