________________
नव. बृह.१।। प्राणाति
सा चान्यदा तमुक्तवती, यथा-वैश्वदेवपूजाकाले बलिप्रक्षेपं कुर्वन्तीं मां काका उपद्रवन्ति तत् मां तेभ्यो रक्षय. सोऽपि हिंसायां दोतस्याः कुटिलस्वभावतामजानानः छात्रान् अभाणीत्, यथा-प्रत्येकं भवहिर्भट्टिनी बलिविधानकाले काकेभ्यो वार
पाः पतिमा
रिकाज्ञातं केण रक्षणीया येनैषा सुखेन तत्करोति. तथेति प्रतिपन्ने तैस्तथा गच्छत्सु दिवसेष्वन्यदा विदग्धच्छात्रस्य वारको जातः, तेन चिन्तितं-नेयमतिमुग्धा, किन्तु वैशिकमेतदस्याः, तदहमद्यतनमहोरात्रमस्या गत्यागती विलोकयामीति विचिन्त्य तयाऽलक्षित एव तद्व्यापार निरीक्षितुमारेभे, यावद्विकालवेलायां घटं गृहीत्वोदकानयनाय नर्मदा प्रति प्रस्थिता, सोऽपि पृष्ठतो लग्नस्तच्चेष्टां विलोकयितुं, साऽपि तत्तीरमासाद्य कक्षाबन्धं विधाय घटमवाङ्मुखं गृहीत्वा । तरीतुमारब्धा, सोऽपि तयाऽविज्ञात एव तीा परं तीरमापत् क्षणमात्रेण, साऽपि परतीरमागत्य तद्देशवर्त्तिन एकस्य तरुणगोपालस्य समीपं गत्वा चिरं रत्वा तथैवाऽऽयातमारब्धा. अत्रान्तरे चौराः कुतोऽपि कुतीर्थादिविभागमनवगच्छन्तो नदीमवतीर्णाः संसमारेण गृहीताः, ततस्तं नानाविधताडनाभिस्ताडयतोऽपि तेन तानविमुच्यमानानवलोक्य तयोक्तं-यथा भो भद्राः ! भवन्तः कुतीर्थावतीर्णाः सुंसुमारेण गृहीताः, न चायमेवंविध पृष्ठहननादिभिर्दूरमवसर्पति, किं न श्रुतः सुसुमारग्रहो युष्माभिः ?, तदेनमक्ष्णोः कुञ्चत, ततस्तैस्तथा कृते दूरं
Jain Educh an in
For Private & Personal Use Only
Hrww.jainelibrary.org