SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ तिपातविरतेः परिणामो, जायत इति शेषः, 'एवं सब्वाणवि वयाणं'ति एवं उक्तरूपेण द्वितीयकषायक्षयोपशमलक्षणेन सर्वेषामपि-समस्तानामप्युक्तशेषाणां-मृषावादविरत्यादीनां, प्राप्तिरित्यध्याहृतपदेन सम्बन्ध इति गाथार्थः ॥ २३ ॥ उक्तं तृतीयद्वारमधुना चतुर्थमुच्यते-- पाणाइवायअनियत्तणमि इहलोय परभवे दोसा । पइमारिया य इत्थं जत्तादमगो य दिटुंता ॥ २४ ॥ प्राणातिपातो-हिंसा तस्या अनिवर्त्तनमनिवृत्तिस्तस्मिन् प्राणातिपातानिवर्त्तने, इहलोकश्च परभवश्व इहलो• कपरभवं, समाहारत्वादेकवचनं, तस्मिन् इहलोकपरभवे, यहा प्राकृतत्वाहचनव्यत्ययः-इहलोकपरभवयोः 'दोपा दृषणानि, भवन्तीति शेषः, अत्र च को दृष्टान्तः ? इति चेत् आह-पतिमारिका च 'अत्र ' प्राणातिपातनिवर्त्तने । यात्राद्रमकश्च 'दृष्टान्तौ ' उदाहरणे, चशब्दौ परस्परापेक्षया समुच्चये, इति गाथार्थः ॥ २५ ॥ भावार्थः कथानFaकगम्यः, तयोश्चाद्यं तावत्कथ्यते-- लाटदेशे भृगुकच्छपत्तने गङ्गकाभिध एक उपाध्यायो बहुच्छात्रपाठको बभूव, भार्या तस्य नर्मदाभिधा तरुणी, For Private & Personal Use Only Jain Educational www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy