SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ तिपातविरतेः परिणामो, जायत इति शेषः, 'एवं सब्वाणवि वयाणं'ति एवं उक्तरूपेण द्वितीयकषायक्षयोपशमलक्षणेन सर्वेषामपि-समस्तानामप्युक्तशेषाणां-मृषावादविरत्यादीनां, प्राप्तिरित्यध्याहृतपदेन सम्बन्ध इति गाथार्थः ॥ २३ ॥ उक्तं तृतीयद्वारमधुना चतुर्थमुच्यते-- पाणाइवायअनियत्तणमि इहलोय परभवे दोसा । पइमारिया य इत्थं जत्तादमगो य दिटुंता ॥ २४ ॥ प्राणातिपातो-हिंसा तस्या अनिवर्त्तनमनिवृत्तिस्तस्मिन् प्राणातिपातानिवर्त्तने, इहलोकश्च परभवश्व इहलो• कपरभवं, समाहारत्वादेकवचनं, तस्मिन् इहलोकपरभवे, यहा प्राकृतत्वाहचनव्यत्ययः-इहलोकपरभवयोः 'दोपा दृषणानि, भवन्तीति शेषः, अत्र च को दृष्टान्तः ? इति चेत् आह-पतिमारिका च 'अत्र ' प्राणातिपातनिवर्त्तने । यात्राद्रमकश्च 'दृष्टान्तौ ' उदाहरणे, चशब्दौ परस्परापेक्षया समुच्चये, इति गाथार्थः ॥ २५ ॥ भावार्थः कथानFaकगम्यः, तयोश्चाद्यं तावत्कथ्यते-- लाटदेशे भृगुकच्छपत्तने गङ्गकाभिध एक उपाध्यायो बहुच्छात्रपाठको बभूव, भार्या तस्य नर्मदाभिधा तरुणी, For Private & Personal Use Only Jain Educational www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy