SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ नव. बृह. प्राणाति० दाःउत्पत्तिश्च गा. २०२३ सत्रत्वाल्लप्तविभक्तिकं पदं ततः सहापराधेन वर्तत इति सापराधः-प्रतिकलकारी जीवस्तद्विषयो वधोऽपि सापराधः । पूर्वोक्तादेव हेतोर्निर्गतोऽपराधान्निरपराधः, शेषं प्राग्वत्, एष च सर्वोऽपि सापेक्षस्य कर्तुर्यदा भवति तदा सापेक्षो. निरपेक्षस्य तु निरपेक्षः, अत्र च श्रावकेण स्थूलप्राणातिपातस्य निवृत्तिं कुर्वता संकल्पजान्निरपराधान्निवर्तितव्यं, सापराधे तु गुरुलध्वालोचनया सापेक्षक्रियया प्रवर्त्तितव्यं, न तु निरपेक्षता कार्या, आरम्भजे तु न नियमः, किन्तु तत्रापि यतनया प्रवर्तितव्यमिति गाथार्थः ॥ २१॥ गतं द्वितीयद्वारमिदानीं यथा जायते स्थूलप्राणातिपातविरति. रित्येतद्वारमुच्यते सम्मत्तमिवि पत्ते बीयकसायाण उवसमखएणं । तबिरईपरिणामो एवं सबाणवि वयाणं ॥ २३ ॥ 'सम्यक्त्वे' सम्यग्दर्शने. अपिशब्दस्य भिन्नक्रमः सम्बन्धः स च 'प्राप्तेऽपि लब्धेऽपि, अयमभि. प्रायः-अप्राप्तसम्यग्दर्शनस्य विरतिपरिणामो न जायत एव, अतः प्राप्तेऽपीत्युक्तं, 'द्वितीयकषायाणाम् ' अप्रत्याख्या- नाभिधेयानां 'उवसमखएणं' ति प्राकृतत्वात्परनिपातः ततः क्षयोपशमेनेत्यर्थः, 'तद्विरतिपरिणामः' प्राणा ॥९॥ Jain Educationa linal For Private & Personel Use Only alww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy