________________
यतिश्रावकयोः सामान्येनैव स्वामित्वप्रदर्शनार्थ, निवृत्तिस्तु यथासम्भवं भाव्येति गाथार्थः ॥ २१ ॥ व्याख्यातं यादृशद्वारमधुना भेदहारस्यावसरस्तत्प्रतिपादनायाह--
थूला सुहुमा जीवा संकप्पारंभजो य सो दुविहो ।
सवराह निरवराहो. साविक्खो तह य निरविक्खो ॥ २२॥ ___ 'स्थूलाः' हीन्द्रियादयश्चक्षुरिन्द्रियग्राह्याः 'सूक्ष्माः' तद्विपरीता एकेंद्रियाः 'जीवाः' प्राणिनो, द्विविधा भववन्तीतिशेषः, सूक्ष्मत्वं च सूक्ष्मदृष्टिगम्यतया न तु सूक्ष्मनामकर्मोदयेन, तद्वतामतिपातनासम्भवात, स्वायुःक्षयेणैवतन्मरणा
भ्युपगमात् , अनेन जीववैविध्येनाश्रयाश्रयिणोरभेदोपचारात् प्राणातिपातो द्विविधः स्थूलः सूक्ष्मश्चेत्येतदुक्तं भवति, तेन प्राणातिपातभेदद्वारेऽपि जीवभेदाभिधानमदुष्टमेवेति सूत्रार्थः सूक्ष्मधिया भाव्यः, अन्यथापि प्राणातिपातहैविध्यमाह-संकप्पारंभओ य सो दुविहोत्ति सङ्कल्पश्च-मारयाम्येनं कुलिङ्गिनमित्येवं विकल्पः आरम्भश्चकृष्यादिरूपः सङ्कल्पारम्भौ ताभ्यां जातः सङ्कल्पारम्भजः, चशब्दः पूर्वापेक्षया समुच्चये, 'सः' पूर्वोक्तः स्थूलसूक्ष्मभेदेन । द्विविधोऽपि प्रत्येकं द्विविध इति सम्बन्धः यः सङ्कल्पजः सोऽपि विभेद इत्याह-सापराधो निरपराधः, 'सवराहत्ति
For Private Personal Use Only
in Education Interna
w.jainelibrary.org