SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्राणातिक नव. बृह. १ चतुःप्रभृतयः, आदिशब्दात्षडादिपरिग्रहो, यथोक्तम्-" इंदियबल ऊसासा पाणा चउ छच्च सत्त अटेव । इगि प्राणातिपात स्वरूपं गा. विगलऽसण्णसण्णी नवदस [ ग्रन्थाग्रम् २५०० ] पाणा उ बोद्धव्वा ॥ १ ॥” इति, परिणामे-चित्तादिपरिणातिविशेषे २१ यदष्टोत्तरशतं, भङ्गकानामिति गम्यं, तच्च प्राणातिपाते स्वरूपमिति प्राग्वद्योगः, उद्दिष्टसङ्ख्या चैव-संरम्भसमारम्भा• रम्भस्त्रिभिर्मनोवाकायकरणकारणानुमतिनवकताडितैः सप्तविंशतिः २७, पुनः कषायगुणितैरष्टोत्तरं शतं, संरम्भादि स्वरूपं चैव-प्राणातिपातादिसंकल्पः संरम्भः, तत्करणजनितः परितापः समारम्भः, तक्रियानिष्पत्तिश्चारम्भः, तदुक्तम्-" संकप्पो संरम्भो परितावकरो भवे समारंभो । आरम्भो उद्दवओ सुद्धनयाणं तु सव्वेसिं ॥ १॥" स्यादेतद्-व्रतान्यत्र यादृशादिद्वारैर्व्याख्यातुमुपक्रान्तानि,तेषु च प्रथमत्रतं प्राणातिपातपरिहारः, ततो यादृशद्वारे तस्यैव । स्वरूपं वक्तुमुचितं, न प्राणातिपातस्य, यतः प्राणातिपातः प्राणविनाशोऽभिधीयते, तत्परिहारस्तु तद्विरतिः, यदाह । वाचकमुख्यः-" हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रत-( तत्त्वा० ७-१)" मिति, सत्यं,विषयविषयिणोरभेदोपचारा- ९१ ॥ देतद्विषया निवृत्तिरप्येतच्छब्देनोपात्तेति न दोषः, एतच्चानपेक्षिताणुस्थूलविशेषस्य प्राणातिपातस्य स्वरूपाभिधानं । Jain Education in For Private & Personal Use Only Mww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy