SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्रथमद्वारेण तावदाह-" दोन सया तेयाला " हे शते त्रिचत्वारिंशदधिके, भेदानामिति गम्यते, 'पाणइवाय 'त्ति प्राणाः-वक्ष्यमाणरूपास्तद्योगात् प्राणिन एव प्राणाः, दण्डयोगाद्दण्डः पुरुषो यथा, तेषामतिपातो| विनाशः प्राणातिपातस्तस्मिन् प्राणातिपाते-प्राणातिपातविषये, स्वरूपमित्युपाहृतपदेन योजना, भणितसङ्ख्या चेत्थमानीयते-पृथ्वीकायिकादयो वनस्पतिकायिकान्ताः पञ्च ५ जीवभेदाः, द्वीन्द्रियादिपञ्चेन्द्रियावसानैश्चतुर्भिः | सह नव ९, ते च मनोवाकायलक्षणेन करणत्रिकेण गुणिताः सप्तविंशतिः २७, भूयः करणकारणानुमतिरूपयोगत्रयता|डिता एकाशीतिः ८१, पुनरतीतानागतवर्त्तमानकालत्रयाभ्यस्ता द्वे शते त्रिचत्वारिंशदधिके भवतः २४३।। तथा ‘पमाओ अट्ठविहो' त्ति प्रमाद्यति-मोक्षमार्ग प्रति शिथिलोद्यमो भवत्यनेन प्राणीति प्रमादः, किंविशिष्टः ? 'अष्टविधः । अष्टप्रकारः, तथा चोक्तम्--" अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च । रागद्वे. षावनारथानं, स्मृतो धर्मेष्वनादरः॥१॥ योगदुष्प्रणिधानं च प्रमादोऽष्टविधः स्मृतः । तेन योगात्प्रमत्तः स्यादप्रमत्तस्ततोऽन्यथा ॥ २ ॥” इति, अयमपि प्राणातिपाते स्वरूपमिति पूर्ववत्सम्बन्धः । ननु केऽमी प्राणा यदतिपातविषयमेतत्स्वरूपं प्ररूप्यते, ? उच्यते, पाणा चउराईय' त्ति 'प्राणाः' इन्द्रियादयः 'चतुरादयः। Jain Education Inte For Private & Personel Use Only N w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy