________________
विष्णुकुमारसाधुना प्रभावना कृता तथा सति सामयेऽन्येनापि करणीया, तदकरणे त्वतीचार इति ॥ उक्तं सप्रसगोदाहरणं सप्तमं सम्यक्त्वातिचारद्वारमधुनाऽष्टमं भङ्गद्वारमभिधत्ते
संमत्तं पत्तंपि ह रोरेण निहाणगव अइदुलहं।
पावेहि अंतरिजइ पढमकसाएहि जीवस्त ॥ १९ ॥ __ 'सम्यक्त्वं । व्याख्यातस्वरूपं प्राप्तमपि ' लब्धमपि, हुशब्दः पूरणे, ‘अंतरिजइ : त्ति सम्बन्धाद. Kalपनीयते, कस्य ?-- 'जविस्य ' प्राणिनः, किंविशिष्टम् ?-' अतिदुर्लभं । दुःखेन लभ्यते यत्तत्तथा, अतिशयेन ।
दुर्लभमितिविग्रहः, भावार्थस्त्वयमस्य-अनादौ संसारे परिवर्त्तमान एष जीवोऽभिन्नकर्मग्रन्थिन कदाचिदवाप्तवानतोऽतिशयदुष्प्रापमिदमित्युक्तं, केन किमिव दुष्प्रापमित्याह-'रोरेण ' रङ्कण निधानमेव निधानकं तदिव-निधानकमिव. कैः ?-'प्रथमकषायैः' अनन्तानुबन्ध्याख्यैः प्रथमता चैषां प्रथमगुणघातित्वेन, प्रथमगुणश्च सम्यक्त्वं, तन्मूल
कत्वाद्देशविरत्यादिगुणानां, कीदृशैस्तैः ?-'पापैः, पापहेतुत्वाद, यहा पापप्रकृतिरूपैरिति गाथाऽक्षरार्थः । भावाINर्थस्त्व(यम)त्र-क्षायोपशमिकौपशामिकसम्यक्त्वापेक्षमेतद्गाथायां भङ्गहारं निर्दिष्टं, न क्षायिकापेक्षं, तस्य शुद्धाशुद्धभेदेन
in Education in
For Private
Personel Use Only
Jaww.jainelibrary.org