SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ नवपद-बृहसम्यक्त्वा चि. ॥८६॥ गन्तुं समर्थो नागन्तुं, सूरिणोक्तं-यद्येवं गच्छ स एवानेष्यति, ततः (सः) समुत्पतितस्तमालदलश्यामलं गगनमण्डलं. विष्णुकुमार क्षणमात्रेण प्राप्तस्तमद्देश, दृष्टो विष्णुकुमारणागच्छन्, चिन्तितवांश्च, गुरुतरं किञ्चित्सङ्घादिकार्य तेनायं वर्षाकाल वृत्तान्तं एव समायातः, सोऽप्येवं चिन्तयन्तं तं विधिवत् प्रणम्य कथितवानागमनप्रयोजनं, स्तोकवेलायां च विष्णुकुमारोऽपि तमादायाऽऽकाशयानेन प्रवृत्तो गजपुराभिमुखं गन्तुं, गतः क्षणमात्रेण, वन्दिताः सूरयः, साधुद्वितीयो गतो नमुचिदर्शनार्थ, किञ्च-तं विमुच्य वन्दितः सर्वैरपि महानरेन्द्रादिभिः, सुखासनासीनेन च धर्मकथनादिपूर्व भणितं । विष्णुना-वर्षाकालं यावत्तिष्ठन्तु मुनयस्तदूर्ध्व यहणिष्यथ तत्करिष्यामः, तस्य च महामत्सरभराक्रान्तान्तःकरणस्य न किञ्चित्प्रतिभातं तद्वचः, केवलं सलिलमिव कर्णप्रविष्टं शूलमुपजनितवत्, ततश्च तेनोक्तंकिमत्र पुनः पुनरुक्तेन ?. दिनपञ्चकमप्यवस्थानं नानुमन्यामहे, विष्णुनोक्तं-नगराद्वहिरुद्याने तिष्ठन्तु. ततः पुनरुदितोद्दीपितकोपेनोक्तं नमुचिना-तिष्ठन्तु तावदेतन्नगरोद्यानं, मम राज्येऽपि सर्वपाषण्डिनामधमैरभिर्न स्थातव्यं, तस्मा | त्वरितं मम राज्यं मुञ्चत यदि जीवितेन कार्य, ततस्तदत्यन्तासहिष्णुताविलोकनेन्धनप्रज्वलितक्रोधवाहिना भणितं ॥ ६ ॥ विष्णुना-तथाऽपि पदत्रयस्थानं मुञ्च, तेनोक्तं यदि पदत्रयोपरि द्रक्ष्यामि तदा लूनशीर्ष करिष्यामि, ततः समुत्पन्न Jain Educationa l For Private Personal Use Only wwjainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy