________________
नवपद-बृहसम्यक्त्वा
चि.
॥८६॥
गन्तुं समर्थो नागन्तुं, सूरिणोक्तं-यद्येवं गच्छ स एवानेष्यति, ततः (सः) समुत्पतितस्तमालदलश्यामलं गगनमण्डलं. विष्णुकुमार क्षणमात्रेण प्राप्तस्तमद्देश, दृष्टो विष्णुकुमारणागच्छन्, चिन्तितवांश्च, गुरुतरं किञ्चित्सङ्घादिकार्य तेनायं वर्षाकाल
वृत्तान्तं एव समायातः, सोऽप्येवं चिन्तयन्तं तं विधिवत् प्रणम्य कथितवानागमनप्रयोजनं, स्तोकवेलायां च विष्णुकुमारोऽपि तमादायाऽऽकाशयानेन प्रवृत्तो गजपुराभिमुखं गन्तुं, गतः क्षणमात्रेण, वन्दिताः सूरयः, साधुद्वितीयो गतो नमुचिदर्शनार्थ, किञ्च-तं विमुच्य वन्दितः सर्वैरपि महानरेन्द्रादिभिः, सुखासनासीनेन च धर्मकथनादिपूर्व भणितं । विष्णुना-वर्षाकालं यावत्तिष्ठन्तु मुनयस्तदूर्ध्व यहणिष्यथ तत्करिष्यामः, तस्य च महामत्सरभराक्रान्तान्तःकरणस्य न किञ्चित्प्रतिभातं तद्वचः, केवलं सलिलमिव कर्णप्रविष्टं शूलमुपजनितवत्, ततश्च तेनोक्तंकिमत्र पुनः पुनरुक्तेन ?. दिनपञ्चकमप्यवस्थानं नानुमन्यामहे, विष्णुनोक्तं-नगराद्वहिरुद्याने तिष्ठन्तु. ततः पुनरुदितोद्दीपितकोपेनोक्तं नमुचिना-तिष्ठन्तु तावदेतन्नगरोद्यानं, मम राज्येऽपि सर्वपाषण्डिनामधमैरभिर्न स्थातव्यं, तस्मा | त्वरितं मम राज्यं मुञ्चत यदि जीवितेन कार्य, ततस्तदत्यन्तासहिष्णुताविलोकनेन्धनप्रज्वलितक्रोधवाहिना भणितं ॥ ६ ॥ विष्णुना-तथाऽपि पदत्रयस्थानं मुञ्च, तेनोक्तं यदि पदत्रयोपरि द्रक्ष्यामि तदा लूनशीर्ष करिष्यामि, ततः समुत्पन्न
Jain Educationa l
For Private
Personal Use Only
wwjainelibrary.org