________________
| पराभूयमानानां तपस्विनां पार्थिव एव शरणं भवति, तथा च स्मृतिवाक्यम् - "दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अनार्यैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥ १ ॥ किञ्च - मनुनाऽपि सामान्येनैवैवमुक्तम् - " प्रजानां धर्मषड्भागो, राज्ञो भवति रक्षतः । अधर्मादपि षड्भागो, भवत्यस्य ह्यरक्षणात् ॥ १ ॥ अतः किमिति निरपराधानेव साधन्निष्काशयसि देशात् ?, अथैवमेव भवतो न प्रतिभान्त्यमी तथाऽपि वर्षाकालं यावन्न किञ्चिद्भणनीयं तदूर्ध्वं निर्गमिष्याम इत्युदितवति सूरौ नमुचिरुवाच - भो ! भो ! किमत्र बहुना वाक्कलहेन ? यदि जीवितेन कार्य तदा दिनसप्त कादर्वागितो निर्गच्छत, तदुपरि तु बान्धवसममपि यदि विलोकयिष्यामि तदाऽवश्यं महानिग्रहेण निग्रहीष्यामि, एवं च तन्निर्वन्धमवबुध्य मुनयः स्वस्थानमाजग्मुः समारब्धश्च सूरिणा साधुभिः सार्द्ध पर्यालोचः - भो ! भो ! किमधुना कर्त्तव्यं ?, अयं हि वादकालविहितोत्तरदानप्रकोपितो मिथ्याभिनिवेशादेवमस्मान् खलीकरोति, अत्रान्तरे भणितमेकेन साधुना-विष्णुकुमारवचनादेष द्रुतमुपशमिष्यतीति संभाव्यते, ततो यद्यनेनोपशान्तेन प्रयोजनं तदाऽविलम्बेन मन्दरशैलादाहूय विष्णुकुमारमेतत्समीपं प्रेष्यतां, ततः सूरिणोक्तं - कस्तत्र गन्तुं शक्ष्यति ? दूरदेशवर्त्ती नः स शैलो, यदि च का ज्जवाचरणो विद्याचारणो वा भवति स एव तत्र गन्तुं शक्नोति, नान्य इति, ततोऽन्येन मुनिनोदितं - यथाऽहमाकाशेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org