SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Jain Education कुर्युः । त्रिभुवनविस्मयजननान् दद्युः कामांस्तृणाग्राहा ॥ १ ॥ धर्माद्रत्नोन्मिश्रितकाञ्चनवर्षादिसर्ग | सामर्थ्यम् । अद्भुतभीमोरुशिलासहस्रसम्पातशक्ति ॥ २ ॥ " इत्यादि । इतश्च — सुव्रताचार्यः स्वशि व्यपरिकरितो मासकल्पेन विहरन् संप्राप्तो वर्षासन्नदिनेषु हस्तिनागपुरं, समवसृतो बाह्योद्याने, समागता वन्दनार्थे नरेन्द्रादयः, प्रारब्धा धर्मकथा, निन्दिता मिथ्यात्वादयः पदार्थः, प्रशंसिताः सम्यक्त्वादयः, ततश्च केचि - | दवगतयथाऽवस्थिततीर्थ करवचनाः प्रव्रजिता, अपरे च श्रावका जाताः, अत्रान्तरे पूर्ववैर संस्मरणोपजातगाढको पस्य नमुचिमन्त्रिणो मुनिच्छिद्रावलोकनपरस्य समागतो वर्षासमयः यत्र - मार्गा दुर्गमतां गता विरहिणः शुष्यन्ति कामातुरा, निर्जित्येव निदाघमूर्जितरिपुं गर्जन्ति धाराधराः । आलोक्येव मलीमसोदयमितो हंसा गता मानसं जाता मासविहारिणोऽपि हि पुरा स्थानस्थिताः साधवः ॥ १ ॥ एवंविधघनसभये, मुनिजनकोपेन याचितो राजा । पूर्वप्रतिपन्नवरो, दत्तश्च नृपेण भणितं च ॥ २ ॥ ब्रूहि तव यदभिलषितं स आह वेदोदितेन विधिनाऽहम् । | इच्छामि यज्ञयजनं तन्मे तावन्ति दिवसानि || ३ || देहि स्वकीयराज्यं दत्तं राज्ञा च सत्यसन्धेन । अन्तःपुरं | प्रविश्य स्वयं च तस्थौ मनुजनाथः ॥ ४ ॥ राज्यस्थिते च तस्मिन् वर्द्धापनकार्थमागतास्तस्य । सर्वे पाखण्डस्थाः For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy