________________
- मुखदेशविनिवेशितया विराजमानो दक्षिणपार्श्वभागस्थापितेन रजोहरणेन शोभमानो विरचितपद्मासनः सरिरभिवन्दितस्त्रिः प्रदक्षिणीकृत्य सपरिवारण नरपतिना, सूरिणाऽप्यानन्दितः पापमलपटलप्रक्षालनजलेन धर्मलाभेन, समुपविष्टो नृपतिर्यथोचितस्थाने, भणितं च भगवता-भो भव्याः ! दुरन्तः खल्वेषः जन्मजरामरणरौद्रजलजन्तुभीषणः । शारीरमानसानेकदुःखसङ्घातानर्वापरपारनीरपरिपूर्णश्चतुर्गतिमहाव-भीमो मनोदुष्पवनप्रेरणाविषयावर्त्तघर्गमानचटुलेन्द्रिययानपात्रः संसारसागरसमुद्रमध्यपतितरत्नमिव दुष्प्रापमत्र मानुषत्वं, विषमिव विपाककटुकं विष। यसुखं, वीचय इव निरन्तराः प्रसरन्ति कमपरिणतयः, नकादिक्रूरजलचरा इव समुच्छलन्ति भयावहा रागद्वेषादयः, गम्भीरपातालमिवातीबदुःखबहुलं श्रूयते नरकजालं, बडवानल इव बहलदाहहेतुः । प्रवर्द्धते कषायदहनः, विषकन्दल्य इव विवशं जनं विदधति स्त्रियः तस्मादेतत्तरणवाञ्छया । विधीयतां विविधवतफलकनिवहनिबद्धे ज्ञानकर्णधारविराजिते सम्यक्त्वकूपस्तम्भशोभिते प्रशस्ताध्यवसायवायुपरिपूर्णविविधतपोऽनुष्ठानसितपटकलिते परतीरवर्तिपरमगतिपुरीनिवासार्थिमुनिजनवणिक्सार्थपरिकरिते परमगुरुप्रणीत सद्धर्मयानपात्रे यत्नः, अपिच-अत्र चतुर्दशरज्ज्वात्मकेऽत्र लोके जनस्य संवसतः । अस्ति न कुत्रापि सुखं विमुच्य।
Jain Education ine
For Private & Personel Use Only
Vilww.jainelibrary.org