SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वा वृत्तान्तं चि. ॥ ८ ॥ नवपद. बृह. वैताढ्यपर्वते सूरोदयं नगरं, समर्पित इन्द्रधनुर्नाम्नो विद्याधराधिपतेः, परिणायितस्तेन स्वभार्यायाः श्रीकान्तायाः सुता विष्णुकुमार जयकान्तां तत्परिणयनोपजातकोपावागतौ च गङ्गाधरमहीधरौ तदीयमातुलभ्रातरौ प्रवरविद्याधरौ विजित्य सङ्गारे क्रमेण सभपार्जितसमस्तविद्याधराधिपत्यो वशीचकार वैताढ्यश्रेणिद्वयं, न च परितोषं कमप्युवाह मदनावलीविरहितः, अन्यदा च जगाम केनापि मिषेण तमेव तापसाश्रमं, तत्र तापसः प्रवरपुष्पफलादिभिर्विहितोऽस्य सन्मानः, दत्ता च तत्रैवागतेनामष्य मदनावली शतधनुःपुत्रेण जनमेजयेन, परिणीता च महाप्रमोदमुहहताऽनेन सा, ततो महाविभूत्या विद्याधरचक्रवर्तिसमृद्धिसमेतो गतो हस्तिनागपुरं, प्रविष्टो बन्दिजनस्तूयमानः,आनन्दितवांश्च प्रणामाधुचितप्रतिपत्तिIN करणेन चिरवियोगदूनमानसौ जननीजनको विष्णुकुमारं च, अत्रान्तरे समवसृतः स एव मुनिसुव्रतस्व मिशिष्यः hd सुव्रताचार्यो यः कुल गहं क्षमाङ्गनायाः नन्दनवनं मार्दवसुरतरोर्निधानमार्जवधनस्यालम्बनं मुक्तिवल्ल्याः क्रीडागृह तपःश्रियः स्वामी संयमसेवकस्य सहायः सत्यबन्धोः पारिजातप्रसवः शौचकिंजल्कस्य पणितभूमिराकिञ्चन्यपण्यस्य यौवनं ब्रह्मचर्यमण्डनस्य, तस्य च निजोद्यानपालकावगम्यागमनं नरपतिः सपरिवारः समं विष्णुकुमारमहापद्माभ्यां वन्दनार्थमाययौ, तत्स्थानप्राप्तेन च करकमलकलितया मुखवस्त्रिया मकरध्वजविजयगृहीतजयपताकयेव ॥ Jan Education ! For Private Personel Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy