________________
यथा-जानासि कमप्युपायं सिंहबलग्रहणे ?, नमुचिनोक्तं-सुष्टु जानामि, ततो गत्वा तद्देशं निपुणोपायेन भङक्त्वा दुर्ग सिंहबलं च गृहीत्वा समागतो नमचिः, अतितुष्टेन राज्ञा वरं वृणीष्वेत्युक्तोऽब्रवीन्मन्त्री-यदा याचिष्ये तदा दद्याः, एवं च यौवराज्यमनुपालयति महापद्मः, कदाचित्तदीयमात्रा ज्वालया कारितो जिनरथः, अन्यया च लक्ष्म्यभिधानया विमात्रा ब्रह्मरथः, तयोश्चान्योऽन्यं विवादे प्रथमरथभ्रमणविषये समुत्पन्ने पद्मोत्तरेण नरपतिना द्वयोरपि निवारितौ रथौ. ततो महापद्मकुमारस्तमेवापमानं मन्यमानो निजमातुर्गतोऽकथयन्नेव महाटवीं, तत्र स्थित्वा तापसाश्रमे कानिचिदिनानि जनमेजयनरपतेः पुत्रिकायां नागवतीकुक्ष्युत्पन्नायां मदनावल्यां कालनरेन्द्रण सह युद्धे समापतिते निजपितुः पलायिते दिशो दिशमन्तःपुरादिपरिकरे भयेन तत्रैव तापसाश्रमे समागतायां प्रथमदर्शन एव दर्शितानुरागायां जातानुरागः कुलपतिना विसर्जितो गच्छन् प्राप्तः सिन्धुनन्दनपुरम्, तत्रोद्यानिकामहोत्सवे मदोन्मत्तमहाकरिणो विमोच्य क्रीडन्तं नगरनारीजनं समानिनायालानस्तम्भमेतं महाकरिणं, विज्ञातव्यतिकरोऽसौ राज्ञा तत्रत्येन परिणायितः कन्याशतं, मनसा च समुहहति सदैव मदनावली, तिष्ठंश्च विशिष्ठसौख्येन अन्यदा रात्रौ सुप्तोऽपहृतो विद्याधराङ्गनया वेगवत्या, निद्रावसानाबोदितापहारकारणयावत्तदा (च तया) नीतोऽसौ ।
Jain Education in
will
For Private & Personal Use Only
AITww.jainelibrary.org