________________
Jain Education Int
लक्ष्मीः तावत्प्राणिना सकलव्यसनमूलमिति त्याज्या, तथा चोक्तम् - "या गम्याः सत्सहायानां यासु खेदो महद्भयम् । तासां किं यन्न दुःखाय विपदामिव सम्पदाम् ? ॥ १ ॥” इति, भिक्षा तु विशिष्टगुणेत्युपादेया, तथा चार्षम् - " अबधूतां च पूतां च मूर्खाद्यैः परिनिन्दिताम् । चरेन्माधुकरीं वृत्ति, सर्वपापप्रणाशिनीम् ॥ १ ॥ " तथा " एकान्नं । नैव भुञ्जीत । बृहस्पतिसमादपि । चरेन्माधुकरीं वृत्तिमपि म्लेच्छकुलादपि ॥ २ ॥ " यद्वा (च) ' मलमलिने ' त्याद्युक्तं तत्रापि मुनिजनस्य शास्त्रे स्नाननिषेधान्मलधारित्वं न दूषणं यथोक्तं भवदायें - " स्नानं मददर्पकरं, कामाङ्गं प्रथमं | स्मृतम् । तस्मात्कामं परित्यज्य, न स्वान्तीह दमे रताः ॥ ३ ॥ " अशुचित्वं च ब्रह्मचारिणां भवदागम एव ' ब्रह्मचारी सदा शुचि ' रित्यादौ निषिद्धम् । शिरस्तुण्डमुण्डनमपि व्रतिनां शास्त्रोक्तमनुपालयतां भूषणं, न दूषणं, यच ' यत्र त्रिपुरुषपूजा न समस्ती' त्यायुक्तं तत्र त्रिवक्षितत्रिपुरुषी (जा पू) जैव न भवति, रागाद्यनुगतत्वादितरपुरुषवद्, रागाद्यनुगतत्वं चाङ्गनादिपरिग्रहादिलिङ्गान्यथानुपपत्तेः तथा चोक्तम्- “ कश्चिद्रागी भवति हतितोगीत नृत्यप्रपञ्चः, प्रद्वेष्टयन्यः प्रहरणगणव्ययपाणिः पुमान् यः । बिभ्रन्मोही स्फाटिकविमलामक्षमालां यतस्ते, तल्लिङ्गानामभ| वनमतः सर्ववित्त्वं विरागः ॥ १ ॥ " हविर्भुजो हवनमपि प्राणातिपातकारणत्वान्न सुन्दरं, प्राणातिपातकारणत्वं चास्य
For Private & Personal Use Only
w.jainelibrary.org