________________
मवपद-बृह सम्यक्त्वा
वृत्तान्तं
।।८०॥
ततोऽनुज्ञातो गुरुणा स मन्त्रिणं भणितुमुपचक्रमे-भो यत्त्वयोक्तम्-आनन्दरूपं विषयसुखं तदसम्बद्ध, यतः । विष्णुकुमार केषाञ्चिदसमसमुल्लसितसद्विवेकानां विषविकारसममेव विषयसुखमाभाति, तथाहि-त एवं चिन्तयन्ति, यथोक्तं व्यासेन-"एकैकशोऽपि निघ्नन्ति, विषया विषसंनिभाः । किं पुनर्न विवेकात्मा, यः समं पञ्च सेवते ॥ १॥" अन्येषां तु मोहावष्टब्धचेतसां यद्यप्यानन्दरूपं प्रतिभाति तथाऽपि तेषामपि विद्यल्लताविलसितमेव स्तोककालिकमेतद्, यत उक्तम्-'सुखास्वादलवो योऽपि, संसारे सत्समागमात् । सवियोगावसानत्वादापदां धुरि वर्तते ॥१॥" किञ्च- सुरतसुखं खलमैत्री सन्ध्यारागः सुरेन्द्रकोदण्डम् । कलिकालयौवनं जीवितं च सर्वाण्यनित्यानि ॥१॥" यच्चोक्तं 'सर्वपाषण्डक्षितो जिनधर्मः, तदप्ययुक्तं, यतः सकलपाषण्डिनामपि प्राणातिपातादिपरिहारात्मको धर्मः । सम्मत एव, तथा चोक्तम्-" पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ १॥” 'विशिष्टजनपरिहतामिति यदुक्तं तदप्यसङ्गतं, यतः सर्वस्यापि धर्मस्य दया मूलं, सा चाविकलाsत्रैव, यथावज्जीवतत्त्वपरिज्ञानात्, नान्यथा, अतोऽयमेव विशिष्टजनैराद्रियते सम्पूर्णधर्मफलकाम्यया, यच्च निजश्रियं ॥ परित्यज्येत्याद्युक्तं तदूषणमेव न भवति, लक्ष्मीपरित्यागभिक्षाटनाङ्गीकारयोः सकलधार्मिकाभिप्रेतत्वात्, तथाहि
Jain Education Internet
For Private & Personal Use Only
S
jainelibrary.org