________________
चिमन्त्रिणा-यथा भो! भो! यावत्सम्बग्विभाव्यते तावदज्ञातपरमार्था यूयं, यतः प्रत्यक्षानुभूयमानानन्दस्वरूपं विषयसुखमुत्सज्याङ्गीकृतः सर्वपापण्डिभ(द पितो विशिष्ट जनपरिहतो जिनधर्मः तथा निजश्रियं परित्यज्य स्वीकृता भिक्षा, यहा मलमलिनदेहानामशचितया पिशाचोपमानानां मुण्डितमुण्डतुण्डानां कियदेतत? अपिच-यत्र त्रिपु.
रुषपूजा न समस्ति हविर्भुजो न वा हवनम् । न द्विजजनप्रदानं धर्मः स कथं भवति मूढ ? ॥ १॥ इत्याकर्ण्य । १. अहो ! मूर्खशठोऽयमसमीक्षितवादी तरिकमस्योत्तरदानेनेति विचिन्त्य तूष्णी स्थितः सरिः, यत उक्तम्-" विद्धानजुरभिगम्यो, विदुषि शठे चाप्रमादिना भाव्यम् । मूर्खाजवोऽनुकम्प्यो मूर्खशठः सर्वथा त्याज्यः॥१॥” स च हतप्रतिभ एव । मुण्डो न किञ्चिदुत्तरं दातुं शक्नोतीति चिन्तयंस्तदुत्प्रासनार्थ पुनः पुनस्तदेव भणितुमारेभे, ततो भणितः सूरिणाऽसौ । -भो भोः किमेवमसम्बद्धमुल्लपसि ?, यदि जल्पसामर्थमस्ति तदा कुरु पूर्वपक्षं पञ्चावयववाक्योपन्यासेन, अत्रान्तरे पादयोर्निपत्य विज्ञप्तं सविनयमेकेन विनेयेन, यथा-भगवन् ! कोऽयं? यदस्योपार एवं संरम्भः समारभ्यते भवद्भिः, यतः--"गण्डस्थलोल्लसदमन्दमदप्रवाहगन्धावबद्धमधुपोद्धरवारणेन्द्राः। एकैकघातवशतोऽपि पतन्ति यस्य, तस्य क्रमः किमु चकास्ति हरे{गेषु ? ॥१॥" तदलमाक्षेपेण, दीयतामादेशो मह्यं येनापनयामि वादगर्वमेतस्य,
Jain Education Internal
For Private & Personal Use Only
N
w
.jainelibrary.org