SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ विष्णुकुमार वृत्तान्त सम्यक्त्वा चि. ॥७२॥ चयेनं, क्रमेणाऽऽससाद सकलजनमनोहरं तारुण्यं, निवेशितश्च सजिगीष इंति जनकेन यौवराज्ये । इतश्वास्त्युजयिन्यां नगर्या श्रीधर्मनामा नृपतिस्तस्य च नमुचिर्मन्त्री, अन्यदा तत्र समवससार मुनिसुव्रतस्वामिनः शिष्योऽनेकमुनिनिवहपरिवृतः सुव्रताभिधानसरिः, तद्वन्दनार्थ च निज रविभूत्या वजन्नालोकितः प्रसादोपर्यवस्थितेन नमुचिमन्त्रिसमन्वितेन राज्ञा नगरीलोकः, भणितं च यथा-क्कैष लोकोऽकालयात्रायां गच्छति ?, नमुचिनोक्तंदेव ! प्रातरश्ववाहनिकागतेन मया श्रुतं यथाऽत्रोद्याने श्रमणाः केचनागता विद्यन्ते, अतस्तद्भक्तो जनोऽयं । तत्पार्चे गच्छति, राज्ञोक्तं-वयमपि बजामः, नमुचिनाऽभाणि-किंनिमित्तं तत्र युष्माकं गमनं ?, यदि धर्मशुश्रूषया तदा वयमेव वेदविहितं सर्वलोकसंमतं भणामो धर्म नपतिनाऽवाचि-सत्यमेतद्, भवता कथ्यते धर्मः। केवलं तेऽपि द्रष्टव्या महात्मानः, तथाऽवगन्तव्यं च कीदृशं ते धर्म प्ररूपयन्ति ?, तेनोक्तं--यद्येवं तर्हि गम्यतां किन्तु तत्र गतैर्युष्माभिर्मध्यस्थैरासितव्यं येनाहं तान् वादेन जित्वा निरुत्तरान् करोमि, तत एवमस्त्विति प्रतिपन्ने नृपेण । सामन्तादिलोकसमेता गतास्ते, तत्र च दृष्टः प्रथमागतनागरकजनन्य धर्मदेशनां कुर्वाणो मुनिमण्डलमध्यवर्ती शशीव तारानिकरपरिकरितः सुव्रताचार्यः, प्रणम्य तं यथास्थानमुपविष्टेषु नरेन्द्रादिष्वकस्मादेवोक्तं सूरिसम्मुखं नमु ॥७९॥ Jain Education Intern a For Private & Personel Use Only Lww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy