SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सुखेन बभार गर्भ, संपाद्यमानयथासमयोपजायमानसकलदोहदा च परिपूर्णसमये प्रसूता देवकुमारोपमं दारकम्, अभिनन्दितो नृपतिः प्रियङ्करिकाभिधानया चेट्या, दत्तमिच्छातिक्रान्तं पारितोषिकं, तदनन्तरं च स्थानस्थानप्रार भ्यमाणवारविलासिनीसार्थनृत्यप्रबन्धं वाद्यमाननानाविधातोद्यनादबधिरिताखिलब्रह्माण्डं बन्दिनिवहविधीयमानविविधप्रस्तावपाठं सकललोकप्रमोदोत्पादकं प्रारब्धं राज्ञा वर्धापनक-यत्र प्रदानमयमिव सम्मदमयमिव सदुत्सवमयं वा । समजनि नगरमशेषं गीतादिविलासमयमिव तत् ॥ १ ॥ समचितसमये च प्रशस्तेषु तिथिनक्षत्रयोगकरणवारेषु शुभायां लग्नहोरायां प्रतिष्ठितं दारकस्य विष्णुकुमार इत्यभिधानं, वृद्धिं गतो देहोपचयेन । कलाकलापेन च. संप्राप्तः सकलजनश्लाघनीयं यौवनंतत्र च वर्तमानो मातापितसमाराधनपरः परोपकारपरायणः कदाचिदिवस इव मित्रमण्डलसमन्वितः प्रश्नोत्तरादिविनोदेन अन्यदा च लक्ष्मण इव रामानुगतो नानाविधविलासनिर्वर्त्तनेन एकदा च समद्धनपतिरिव सम्पूर्णविषयग्रामोऽसमानसुखसन्दोहासेवनेन कियन्तमपि कालं निनाय, अन्यदा च पुनरपि ज्वाला चतुर्दशमहास्वप्नसूचितं सुरकुमाराकारं सुकुमारमस्त तनयं तस्यापि जन्मनि निर्तितो राज्ञा महानुत्सवः, कृतं चोचितसमये तस्य महापद्म इति नाम, शुक्लपक्षक्षपाकर इव सह कलाभिः प्रवृत्तो देहोप Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy