________________
नवपद. बृह. सम्यक्त्वा
वि.
॥ ७८ ॥
विश्वविश्वम्भरासारः, साराढ्यजनताकुलः । कुलकाटेसिमाकीर्णपुरग्राममनोरमः ॥ १ ॥ रमानिवासराजीवराजीवरसरोगणः । गणातीताकरोदेशो, देशोऽस्ति कुरुनामकः ॥ २ ॥ त्रिदिवमिव तत्र सुरभुवनभूषितं हस्तिनागपुरमस्ति । | विबुधजनानन्दकरं सदोप्सरोनिवहरमणीयम् ॥ ३ ॥ ( आर्या ) तस्मिन्नरातिभूपालमत्तमातङ्गकेशरी । शरणायातसा. | मन्तसन्तापजलदो दयः ॥ ४ ॥ उदयप्रतापराजिष्णुर्जष्णुर्विष्णुसमः श्रिया । निजान्वयसरः पद्मोऽभवत्पद्मोत्तरो नृपः ॥ ५ ॥ सकलान्तःपुरसारा तस्य ज्वालाभिधा प्रियतमाऽभूत् । निजरूपनिर्जितरतिलावण्यविलासवासगृहम् ॥ ६ ॥ ( आर्या ) तया च सह तस्य नृपतेर्जन्मान्तरोपार्जितपुण्यसंभारसंपादितं बुधजनप्रशंसनीयं जीवलेोकसारं पञ्चप्रकारं विषयसुखमनुभवतोऽतिक्रान्तः कियानपि कालः, अन्यदा च सुखशय्याया मनाकुलनिद्रानुविद्धनयनयुगला ज्वाला महादेवी यामिन्याश्चरमयामे स्वप्ने निरभ्ररजनीरजनिकरकर निकरावदात देहं स्कन्ध| देशविराजमान कपिलसटाकलापं शारदाभ्रमिव तडिद्वलयालङ्कृतमुपलक्ष्यमाणनिजोत्सङ्गमागतं सिंहपोतं ददर्श, दृष्ट्वा च प्राभातिकप्रहतानवद्यनादप्रतिबोधिता विधाय तत्कालोचितं सकलकरणीयं परमानन्दनिर्भरा भर्तृसकाशमागत्य कथितवती, तेनापि खमशास्त्रानुसारेण प्रधानपुत्रजन्मादेशसंजनितासमानमनःसम्मदा सा तत्काले समुद्भूतं सुखं
Jain Education
BS B1979 S
For Private & Personal Use Only
प्रभावनायां
विष्णुः
॥ ७८ ॥
www.jainelibrary.org