________________
Jain Educatio
कश्चिदेनं प्रगुणीकरोति तस्य सकलमेव स्वहस्तेन स्वगृहसारं प्रयच्छामीति प्रतिपादयन् माता च मम दुःखदुःखिता हा वत्स ! कदा प्रगुणो भविष्यसीत्यादि विलपन्ती भ्रातरश्च ज्येष्ठकनिष्ठा नानाविधान् अङ्गसंबाधनाद्युपचारान् विरचयन्तः भार्या च हा नाथ ! प्राणेभ्योऽपि प्रियतम ! किमेतत्ते जातमित्यादि प्रलापान् कुर्वन्ती अन्योऽपि च स्वजनमित्रदासीदासादिपरिकरो गाढं मदुःखदुःखितात्मा क्षणमात्रमपि मत्सकाशममुञ्चन् न तिलतुषमात्रमपि दुःखमुपहतवान् इत्थं चानाथतादुःखदुःखितस्य मे न कश्चित् किञ्चित्परित्राणं कृतवान्, ततोऽहं चिन्तयामास - तीव्रगाढव्याधिवेदनाभिभूतः खलु अहमिदानीं, न चेहैवेयं मे, किन्त्वन्यत्रापि नरकादिभवे विचित्रवेदना अनुभूतवान्, न चैतत्पीडितस्य माभीप्रदाता कश्चित्संभाव्यते, एतन्मूलं च मेऽमी दुर्वाराः कषायारातयो, न च ममैवैवं. | किन्तु सकलस्थापि संसारिणो जीवराशेः, अतो यदि कथञ्चिदितो विमुच्येयं ततः परित्यक्तसकलसावद्यः स्वस्य परस्य च | नाथताहेतुं व्रतं कषायारातिदर्पापहं चरिष्यामि, एवं च विचिन्तयतः परिगलन्त्यां रात्रौ क्षयं गता मे वेदना, ततश्च | प्रभातसमये विहिततदुचित कर्तव्य आपृच्छ्य पितृप्रमुखं बान्धवजनं परित्यक्तसकलपापस्थानोऽनगारतां प्रपन्नः, तद् भो राजन् ! इदमत्र तात्पर्यं संसारिणां जीवानामनेकभवपरिवर्तनाखिन्नानां शारीरमानसानेक दुःखसम्पातपीडि
ational
For Private & Personal Use Only
www.jainelibrary.org