________________
नवपद. बृह.
सम्यक्त्वा ।
वि.
प्रतिपत्तिहेतुस्तदाऽहमेव नाथो भवामि भवतः, मयि च नाथे न कश्चित्तव पराभवविधाता, अतो निराकुल एव विषय- उपबंशयां
श्रेणिका सुखमनुभव, इत्युक्तवति राजनि मुनिरवादीत-राजन् ! सौर्योदार्यादिगुणसूचकाकृतिमात्रेणैव स्वयमेवानाथो भवान् मम नाथवत्तां कर्तुं शक्नोति, न च त्वयि समाश्रितेऽप्यमी अरातयो मम पृष्ठं मुञ्चन्ति, अतः कथं निराकुलो विषयसुखमनुभवामि ?, इत्युक्ते मुनिना नृपतिराह-भदन्त ! आस्तां तावदपरम् , एतावन्मानं पृच्छामि, अहमत्र चतुरङ्गबलकलितराज्यसम्पत्समध्यासितोऽपि प्रतापवानमितानेकसामन्तोऽप्यवदलितवैरिनिकरोऽप्यप्रतिहताज्ञोऽपि । सम्पद्यमानमानसाभीष्टपञ्चविधविषयसौख्योऽपि कथमनाथः ?, कथय, मुनिराह-नरनाथ! यथाऽनाथता मया विवक्षिता न तादृशी त्वया परिभाविता, मया हि स्वानुभृतानाथत्वविवक्षयेयमुपदर्श्यते, तथाहि-पुरा कौशाम्ब्यां प्रभृतधनसञ्चयः । |पिता मे बभूव, तत्पुत्रश्चाहं सजयाभिधानोऽतीव प्राणप्रियः पितुरभुवं अन्यदा च ममाऽऽकस्मिको जनितसर्वाङ्गीणदा. घवेदनोऽक्षिकुक्षिपर्शकासु गाढशूलव्यथाप्रवर्तकरतन्त्रमन्त्रमूलिकादिभिरपि च मम प्रगुणीकरणार्थमाहूताः पित्राऽनेके चिकित्साशास्त्रविशारदा वैद्या मन्त्रतन्त्रज्योतिष्कादिविदोऽन्ये च बहवो ६९ ॥ लोकाः, प्रारब्धास्तैरात्मीयात्मीयाश्चिकित्साः, न च स्वल्पोऽपि मे ताभिः प्रतीकारः संपन्नः, पिता च मे यः|
Jain Educaton Internationa
For Private & Personel Use Only
www.jainelibrary.org